भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 73

73.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 73
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं पार्थ गोपारेश्वरमुत्तमम् ।
गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप

73.2

युधिष्ठिर उवाच:
गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् ।
दक्षिणे नर्मदाकूले मणिनागसमीपतः ।
संक्षेपात्कथ्यतां विप्र गोपारेश्वरसम्भवम्

73.3

श्रीमार्कण्डेय उवाच:
कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह ।
ध्यायते परया भक्त्या देवदेवं महेश्वरम्

73.4

तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः ।
निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः

73.5

तुष्टो देवि जगन्मातः कपिले परमेश्वरि ।
आराधनं कृतं यस्मात् तद् वदाशु शुभानने

73.6

सुरभ्युवाच:
लोकानाम् उपकाराय सृष्टाहं परमेष्ठिना ।
लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः

73.7

लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर ।
तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया

73.8

तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा ।
तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले ।
स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति

73.9

गोपारेश्वरगोदानं यस्तु भक्त्या च कारयेत् ।
योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चना

73.10

सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका ।
कृष्णपक्षे चतुर्दश्याम् अष्टम्यां वा प्रदापयेत्

73.11

सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः ।
दापयेत् परया भक्त्या द्विजे स्वाध्यायतत्परे

73.12

विधिना च प्रदद्याद् यो विधिना यस्तु गृह्णते ।
तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम्

73.13

पिण्डदानं प्रकुर्याद् यः प्रेतानां भक्तिसंयुतः ।
पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम्

73.14

भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने ।
तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा

73.15

तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् ।
पितरश्चोद्धृतास् तेन शिवलोके महीयते

73.16

युधिष्ठिर उवाच:
वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् ।
तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम

73.17

श्रीमार्कण्डेय उवाच:
सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् ।
तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन

73.18

कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप ।
रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः

73.19

वृषस्यैव समुत्सर्गं कारयेत् प्रीयतां हरः ।
सांनिध्ये कारयेत् पुत्र चतस्रो वत्सिकाः शुभाः

73.20

दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः ।
प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः

73.21

वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप ।
तावद्वर्षप्रमाणं तु शिवलोके महीयते

73.22

शिवलोके वसित्वा तु यदा मर्त्येषु जायते ।
कुले महति सम्भूतिर् धनधान्यसमाकुले

73.23

नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक् शुचिः ।
गोपारेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर ।
गोदेहान्निःसृतं लिङ्गं नर्मदादक्षिणे तटे

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc