भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 74

74.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 74
श्रीमार्कण्डेय उवाच:
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम्

74.2

स्थापितं गौतमेनैव लोकानां हितकाम्यया ।
स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर

74.3

तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः ।
पातकस्य विनाशार्थं स्वर्गवासप्रदस् तथा

74.4

सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् ।
पिण्डदानेन चैकेन कुलानाम् उद्धरेत् त्रयम्

74.5

यत्किंचिद् दीयते भक्त्या स्वल्पं वा यदि वा बहु ।
तत्सर्वं शतसाहस्रम् आज्ञया गौतमस्य हि

74.6

तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc