रेवाखाण्ड (संशोधित पाठ) · अध्याय 65
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अगस्त्येश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 65
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् ।
तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम्
युधिष्ठिर उवाच:
आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम ।
कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः
श्रीमार्कण्डेय उवाच:
कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् ।
दानवानां वधं कृत्वा देवदेवो महेश्वरः
पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः ।
आनन्दसंयुतो देवो ननर्त वृषवाहनः
भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः ।
भूतवेतालकङ्कालैर् भैरवैर् भैरवो वृतः
ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन ।
तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः
तदाप्रभृति तत्तीर्थम् आनन्देश्वरम् उच्यते ।
अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप
विधिवच्चार्चयेद् देवं सुगन्धेन विलेपयेत् ।
ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर
गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् ।
वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत्
इङ्गुदैर् बदरैर् बिल्वैर् अक्षतैश्च जलेन वा ।
प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे
आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् ।
सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते ।
आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0