रेवाखाण्ड (संशोधित पाठ) · अध्याय 63
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करोडीश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्टितमो ऽध्यायः॥
र्क्व् अध्याय 63
श्रीमार्कण्डेय उवाच:
ततो गच्छेत् तु राजेन्द्र कुमारेश्वरम् उत्तमम् ।
प्रसिद्धं सर्वतीर्थानाम् अगस्त्येश्वरसन्निधौ
षण्मुखेन पुरा तात सर्वपातकनाशनम् ।
आराध्य परया भक्त्या सिद्धिः प्राप्ता नराधिप
देवसैन्याधिपो जातः सर्वशत्रुनिबर्हणः ।
उग्रतेजा महात्मासौ संजातस्तीर्थसेवनात्
तदाप्रभृति तत्तीर्थं संजातंनर्मदातटे ।
तत्र तीर्थे तु यो गत्वा एकचित्तो जितेन्द्रियः
कार्त्तिकस्य चतुर्दश्यामष्टम्यां च विशेषतः ।
स्नापयेद् गिरिजानाथं दधिदुग्धेन सर्पिषा
गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि ।
ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः शुभैः
यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन ।
सर्वतीर्थमयं तीर्थ निर्मितं शिखिना नृप
एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम् ।
कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन
मृतः स्वर्गमवाप्नोति सत्यमीश्वरभाषितम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0