रेवाखाण्ड (संशोधित पाठ) · अध्याय 62
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रेश्वरतीर्थमाहात्म्यवर्णनं नामैकषष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 62
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र करोडीश्वरम् उत्तमम् ।
यत्र वै निहतास्तात दानवाः सपदानुगाः
इन्द्रादिदेवैः संहृष्टैः सततं जयबुद्धिभिः ।
तेषां ये पुत्रपौत्राश्च पूर्ववैरम् अनुस्मरम्
क्रुद्धैर्देवसमूहैश्च दानवा निहता रणे ।
तेषां शिरांसि संगृह्य सर्वे देवाः सवासवाः
निक्षिप्य नर्मदातोये बन्धुभावम् अनुस्मरम् ।
तत्र स्नात्वा सुराः सर्वे स्थापयित्वा उमापतिम्
इन्द्रेण सहिताः सर्वे ऽपूजयंल्लोकसिद्धये ।
हृष्टचित्ताः सुराः सर्वे जग्मुराकाशमण्डलम्
दानवानां महाभाग सूदिता कोटिरुत्तमा ।
तदा प्रभृति तत्तीर्थं करोडीति महीतले
विख्यातं तु तदा लोके पापघ्नं पाण्डुनन्दन ।
अष्टम्यां च चतुर्दश्याम् उभौ पक्षौ च भक्तितः ।
उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम्
सत्कथापाठसंयुक्तो वेदाध्ययनसंयुतः ।
प्रभाते विमले प्राप्ते पूजयेत् त्रिदशेश्वरम्
पञ्चामृतेन संस्नाप्य श्रीखण्डेन च गुण्ठयेत् ।
शस्तैः पल्लवपुष्पैश्च पूजयेत्तु प्रयत्नतः
बहुरूपं जपन्मन्त्रं दक्षिणाशां व्यवस्थितः ।
यथोक्तेन विधानेन नाभिमात्रे जले क्षिपेत्
तिलाञ्जलिं तु प्रेताय दक्षिणाशाम् उपस्थितः ।
श्राद्धं तत्रैव विप्राय कारयेद् विजितेन्द्रियः
विषमैरग्रजातैश्च वेदाभ्यसनतत्परैः ।
गोहिरण्येन सम्पूज्य ताम्बूलैर्भोजनैस्तथा
भूषणैः पादुकाभिश्च ब्राह्मणान्पाण्डुनन्दन ।
भवेत्कोटिगुणं तस्य नात्र कार्या विचारणा
तस्मिंस् तीर्थे तु यः कश्चित् त्यजेद् देहं विधानतः ।
तस्य भवति यत्पुण्यं तच्छृणुष्व नराधिप
यावदस्थीनि तिष्ठन्ति मर्त्यस्य नर्मदाजले ।
तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे
ततः कालाच्च्युतस्तस्मादिह मानुषतां गतः ।
कोटिधनपतिः श्रीमाञ्जायते राजपूजितः
सर्वधर्मसमायुक्तो मेधावी बीजपुत्रकः ।
विख्यातो वसुधापृष्ठे दीर्घायुर्मानवो भवेत्
पुनः स्मरति तत्तीर्थं तत्र गत्वा नृपोत्तम ।
करोडेश्वरमभ्यर्च्य प्राप्नोति परमां गतिम्
इन्द्रचन्द्रयमैर् रुद्रैरादित्यैर्वसुभिस्तथा ।
विश्वेदेवैस्तथा सर्वैः स्थापितस्त्रिदशेश्वरः
रेवाया उत्तरे कूले लोकानां हितकाम्यया ।
मानवो भक्तिसंयुक्तः प्रासादं कारयेत्तु यः
तस्मिंस्तीर्थे नरश्रेष्ठ सद्गतिं समवाप्नुयात् ।
न्यायोपात्तधनेनैव दारुपाषाणकेष्टकैः
ब्राह्मणः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च शक्तितः ।
ते ऽपि यान्ति नरा लोके शांकरे सुरपूजिते
यः शृणोति सदा भक्त्या माहात्म्यं तीर्थजं नृप ।
तस्य पापं प्रणश्येत षण्मासाभ्यन्तरं च यत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0