भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 64

64.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुमारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिषष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 64
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
नराणां पापनाशाय अगस्त्येश्वरमुत्तमम्

64.2

तत्र स्नात्वा नरो राजन् मुच्यते ब्रह्महत्यया ।
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी

64.3

घृतेन स्नापयेद् देवं समाधिस्थो जितेन्द्रियः ।
एकविंशतिकुलोपेतो च्यवेदैश्वरात् पदात्

64.4

धनं चोपानहौ छत्रं दद्याच्च घृतकम्बलम् ।
भोजनं चैव सर्वेषां सर्वं कोटिगुणं भवेत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc