रेवाखाण्ड (संशोधित पाठ) · अध्याय 61
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 61
श्रीमार्कण्डेय उवाच:
ततो गच्छेत् परं पुण्यं नर्मदादक्षिणे तटे ।
शक्रतीर्थं सुविख्यातम् अशेषाघविनाशनम्
पुरा शक्रेण तत्रैव तपो वै दुरतिक्रमम् ।
प्रारब्धं परया भक्त्या देवं प्रति महेश्वरम्
ततः संतोषितो देव उमापतिर् नराधिप ।
देवेन्द्रत्वं वरं राज्यं दानवानां वधं ददौ
लब्धं शक्रेण नृपते नर्मदातीर्थभावतः ।
ततः पुण्यतमं तीर्थं संजातं वसुधातले
कार्त्तिकस्य तु मासस्य कृष्णपक्षे त्रयोदशीम् ।
उपोष्य वै नरो भक्त्या सर्वपापैः प्रमुच्यते
दुःस्वप्नसम्भवैः पापैर्दुर्निमित्तसमुद्भवैः ।
ग्रहशाकिनिसम्भूतैर् मुच्यते पाण्डुनन्दन
शक्रेश्वरं नृपश्रेष्ठ ये प्रपश्यन्ति भक्तितः ।
तेषां जन्मकृतं पापं नश्यते नात्र संशयः
अगम्यागमने चैव अवाह्ये चैव वाहिते ।
स्वामिमित्रविघाते यन्नश्यते नात्र संशयः
गोप्रदानं प्रकर्तव्यं शुभं ब्राह्मणपुंगवे ।
धुर्यं वा दापयेत् तस्मिन् सर्वाङ्गरुचिरं नृप
दातव्यं परया भक्त्या स्वर्गे वासमभीप्सता ।
एतत् ते सर्वम् आख्यातं शक्रेश्वरफलं नृप
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0