भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 7

7.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सहैतुकरेवानाममाहात्म्यवर्णने मयूरकल्पसमुद्भवो नाम षष्ठो ऽध्यायः ॥
र्क्व् अध्याय 7
श्रीमार्कण्डेय उवाच:
पुनरेकार्णवे घोरे नष्टे स्थावरजंगमे ।
सलिलेनाप्लुते लोके निरालोके तमोद्भवे

7.2

ब्रह्मैको विचरंस्तत्र तमीभूते महार्णवे ।
दिव्यवर्षसहस्रं तु खद्योत इव रूपवान्

7.3

शेते योजनसाहस्रम् अप्रमेयम् अनुत्तमम् ।
द्वादशादित्यसंकाशं सहस्रचरणेक्षणम्

7.4

प्रसुप्तं चार्णवे घोरे ह्यपश्यत्कूर्मरूपिणम् ।
तं दृष्ट्वा विस्मयापन्नो ब्रह्मा बोधयते शनैः

7.5

स्तुतिभिर्मंगलैश्चैव वेदवेदांगसंभवैः ।
वाचस्पते विबुध्यस्व महाभूत नमो ऽस्तु ते

7.6

तवोदरे जगत्सर्वं तिष्ठते परमेश्वर ।
तद्विमुञ्च महासत्त्व यत्पूर्वं संहृतं त्वया

7.7

व्यतीता रजनी ब्राह्मी दिनं समनुवर्तते ।
निरीक्ष्य सर्वलोकेश येन संभवते जगत्

7.8

स निशम्य वचस्तस्य उत्थितः परमेश्वरः ।
समुद्गिरन् स लोकांस्त्रीन् ग्रस्तान् कल्पक्षये तदा

7.9

देवदानवगन्धर्वाः सयक्षोरगराक्षसाः ।
सचन्द्रार्कग्रहाः सर्वे शरीरात्तस्य निर्गताः

7.10

ततो ह्येकार्णवं सर्वं विभज्य परमेश्वरः ।
विस्तीर्णोपलतोयौघां सरित्सरविवर्धिताम्

7.11

पश्यते मेदिनीं देवः सवृक्षौषधिपल्वलाम् ।
हिमवन्तं गिरिश्रेष्ठं श्वेतं पर्वतमुत्तमम्

7.12

शृङ्गवन्तं महाशैलं ये चान्ये कुलपर्वताः ।
जंबुद्वीपं कुशं क्रौञ्चं सगोमेदं सशाल्मलम्

7.13

पुष्करान्ताश्च ये द्वीपा ये च सप्तमहार्णवाः ।
लोकालोकं महाशैलं सर्वं च पुरतः स्थितम्

7.14

चतुःप्रकृतिसंयुक्तं जगत् स्थावरजंगमम् ।
युगान्ते तु विनिष्क्रान्तम् अपश्यत्स महेश्वरः

7.15

विप्रकीर्णशिलाजालामपश्यत्स वसुंधराम् ।
कूर्मपृष्ठोपगां देवीं महार्णवगतां प्रभुः

7.16

तस्मिन् विशीर्णशैलाग्रे सरित्सरोविवर्जिते ।
नानातरंगभिन्नोद आवर्तोद्वर्तसंकुले

7.17

नानौषधिप्रज्वलिते नानोत्पलशिलातले ।
नानाविहंगसंघुष्टां मत्स्यकूर्मसमाकुलाम्

7.18

दिव्यमायामयीं देवीम् उत्कृष्टाम्बुदसन्निभाम् ।
नदीमपश्यद्देवेशो ह्यनौपम्यजलाशयाम्

7.19

मध्ये तस्याम्बुदश्यामां पीनोरुजघनस्तनीम् ।
वस्त्रैरनुपमैर्दिव्यैर्नानाभरणभूषिताम्

7.20

सनूपुररवोद्दामां हारकेयूरमण्डिताम् ।
तादृशीं नर्मदां देवीं स्वयं स्त्रीरूपधारिणीम्

7.21

योगमायामयैश्चित्रैर्भूषणैः स्वैर्विभूषिताम् ।
अव्यक्ताङ्गीं महाभागामपश्यत्स तु नर्मदाम्

7.22

अर्धोद्यतभुजां बालां पद्मपत्रायतेक्षणाम् ।
स्तुवन्तीं देवदेवेशमुत्थितां तु जलात्तदा

7.23

विस्मयाविष्टहृदयो ह्यहमुद्वीक्ष्य तां शुभाम् ।
स्नात्वा जले शुभे तस्याः स्तोतुमभ्युद्यतस्ततः

7.24

अर्चयामास संहृष्टो मन्त्रैर्वेदांगसंभवैः ।
सृष्टं च तत्पुरा राजन्पश्येयं सचराचरम्

7.25

सदेवासुरगन्धर्वं सपन्नगमहोरगम् ।
पश्याम्येषा महाभागा नैव याता क्षयं पुरा

7.26

महादेवप्रसादाच्च तच्छरीरसमुद्भवा ।
भूयो भूयो मया दृष्टा कथिता ते नृपोत्तम

7.27

प्रादुर्भावमिमं कौर्म्यं ये ऽधीयन्ते द्विजोत्तमाः ।
ये ऽपि शृण्वन्ति विद्वांसो मुच्यन्ते ते ऽपि किल्बिषैः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc