भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 32

32.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मावर्ततीर्थमाहात्म्यवर्णनं नामैकत्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 32
श्रीमार्कण्डेय उवाच:
पत्त्रेश्वरं ततो गच्छेत् सर्वपापप्रणाशनम् ।
यत्र सिद्धो महाभागश्चित्रसेनसुतो बली

32.2

युधिष्ठिर उवाच:
को ऽसौ सिद्धस् तदा ब्रह्मंस्तस्मिंस्तीर्थे महातपाः ।
पुत्रः कस्य तु को हेतुरेतदिच्छामि वेदितुम्

32.3

श्रीमार्कण्डेय उवाच:
चित्रोनाम महातेजा इन्द्रस्य दयितः पुरा ।
तस्य पुत्रो नृपश्रेष्ठ पत्त्रेश्वर इति श्रुतः

32.4

रूपवान् सुभगश्चैव सर्वशत्रुभयंकरः ।
इन्द्रस्य दयितो ऽत्यर्थं जय इत्येव चापरः

32.5

स कदाचित् सभामध्ये सर्वदेवसमागमे ।
मेनकानृत्यगीतेन मोहितः सुचिरं किल

32.6

तिष्ठते गतमर्यादो गतप्राण इव क्षणात् ।
तावत्सुरपतिर्देवः शशापाथाजितेन्द्रियम्

32.7

यस्मात् त्वं स्वर्गसंस्थो ऽपि मर्त्यधर्मम् उपेयिवान् ।
तस्मान् मर्त्ये चिरं कालं क्षपयिष्यस्यसंशयम्

32.8

एवम् उक्तः सुरेन्द्रेण चित्रसेनसुतो युवा ।
वेपमानः सुरश्रेष्ठः कृताञ्जलिरुवाच ह

32.9

पत्त्रेश्वर उवाच:
मया पापेन मूढेन अजितेन्द्रियचेतसा ।
प्राप्तं वै यत्फलं तस्य प्रसादं कर्तुम् अर्हसि

32.10

शक्र उवाच:
नर्मदातटमाश्रित्य द्वादशाब्दं जितेन्द्रियः ।
आराधय शिवं शान्तं पुनः प्राप्स्यसि सद्गतिम्

32.11

सत्यशौचरतानां च धर्मिष्ठानां जितात्मनाम् ।
लोकोऽयं पापिनां नैव इति शास्त्रस्य निश्चयः

32.12

एवमुक्ते महाराज सहस्राक्षेण धीमता ।
गन्धर्वतनयो धीमान्प्रणम्यागात्तु भूतलम्

32.13

रेवाया विमले तोये ब्रह्मावर्तसमीपतः ।
स्नात्वा जप्त्वा विधानेन अर्चयित्वा च शङ्करम्

32.14

वाय्वम्बुपिण्याकफलैश्च पुष्पैः पर्णैश्च मूलाशनयावकेन ।
तताप पञ्चाग्नितपोभिर् उग्रैस्ततश्च तोषं समगात् स देवः

32.15

पिनाकपाणिं वरदं त्रिशूलिनमुमापतिं ह्यन्धकनाशनं च ।
चन्द्रार्धमौलिं गजकृत्तिवाससं दृष्ट्वा पपाताग्रगतं समीक्ष्य

32.16

ईश्वर उवाच:
वरं वृणीष्व भद्रं ते वरदो ऽहं तवानघ ।
यमिच्छसि ददाम्यद्य नात्र कार्या विचारणा

32.17

पत्त्रेश्वर उवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
अत्र त्वं सततं तीर्थे मम नाम्ना भव प्रभो

32.18

एतच्छ्रुत्वा महादेवो हर्षगद्गदया गिरा ।
तथेत्युक्त्वा ययौ हृष्ट उमया सह शङ्करः

32.19

सो ऽपि तत्तीर्थम् आप्लुत्य गते देवे दिवं प्रति ।
स्नात्वा जाप्यविधानेन तर्पयित्वा पित्ःन् पुनः

32.20

स्थापयामास देवेशं तस्मिंस् तीर्थे विधानतः ।
पत्त्रेश्वरं तु विख्यातं त्रिषु लोकेषु भारत

32.21

इन्द्रलोकं गतः शापान्मुक्तः सो ऽपि नरेश्वर ।
हृष्टः प्रमुदितो रम्यं जयशब्दादिमङ्गलैः

32.22

एष ते कथितः प्रश्नः पृष्टो यो वै युधिष्ठिर ।
तत्र स्नानेन चैकेन सर्वपापैः प्रमुच्यते

32.23

यस्त्वर्चयेन्महादेवं तस्मिंस्तीर्थे युधिष्ठिर ।
स्नात्वाभ्यर्च्य पित्ःन् देवान् सो ऽश्वमेधफलं लभेत्

32.24

मृतो वर्षशतं साग्रं क्रीडित्वा च शिवे पुरे ।
राजा वा राजतुल्यो वा पश्चान्मर्त्येषु जायते

32.25

वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदः शतम् ।
व्याधिशोकविनिर्मुक्तः पुनः स्मरति तज्जलम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc