भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 219

219.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे जामदग्न्यतीर्थमाहात्म्यवर्णनं नामाष्टादशाधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 219
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे कूले तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च सर्वं कोटिगुणं भवेत्

219.2

तत्र देवाः सगन्धर्वा ऋषयो ये तथामलाः ।
कोटितीर्थे परां सिद्धिं सम्प्राप्ता भुवि दुर्लभाम्

219.3

स्थापितश्च महादेवस्तत्र कोटीश्वरो नृप ।
तं दृष्ट्वा देवदेवेशं सिद्धिं प्राप्नोत्यनुत्तमाम्

219.4

तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते तन्नृपश्रेष्ठ सर्वं कोटिगुणं भवेत्

219.5

तत्र दक्षिणमार्गस्था ये केचिन्मुनिसत्तमाः ।
सिद्धा मृताः पदं यान्ति पितृलोकं ध्रुवं हि ते

219.6

उत्तरं नर्मदाकूलं ये श्रेष्ठा मुनिपुंगवाः ।
देवलोकं गताः पूर्वमिति शास्त्रस्य निश्चयः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc