भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 218

218.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 218
श्रीमार्कण्डेय उवाच:
ततो गच्छेद्धराधीश तीर्थं परमशोभनम् ।
जमदग्निरिति ख्यातं यत्र सिद्धो जनार्दनः

218.2

युधिष्ठिर उवाच:
कथं सिद्धो द्विजश्रेष्ठ वासुदेवो जगद्गुरुः ।
मानुषं रूपमास्थाय लोकानां हितकाम्यया

218.3

एतत्सर्वं यथान्यायं देवदेवस्य चक्रिणः ।
चरितं श्रोतुम् इच्छामि कथ्यमानं त्वयानघ

218.4

श्रीमार्कण्डेय उवाच:
आसीत्पूर्वं महाराज हैहयाधिपतिर्महान् ।
कार्तवीर्य इति ख्यातो राजा बाहुसहस्रवान्

218.5

हस्त्यश्वरथसम्पन्नः सर्वशस्त्रभृतां वरः ।
वेदविद्याव्रतस्नातः सर्वभूताभयप्रदः

218.6

माहिष्मत्याः पतिः श्रीमान्राजा ह्यक्षौहिणीपतिः ।
स कदाचिन्मृगान्हन्तुं निर्जगाम महाबलः

218.7

बहुभिर् दिवसैः प्राप्तो भृगुकच्छमनुत्तमम् ।
जमदग्निर् महातेजा यत्र तिष्ठति तापसः

218.8

रेणुकासहितः श्रीमान्सर्वभूताभयप्रदः ।
तस्य पुत्रो ऽभवद्रामः साक्षान्नारायणः प्रभुः

218.9

सर्वक्षत्रगुणैर्युक्तो ब्रह्मविद्ब्राह्मणोत्तमः ।
तोषयन्परया भक्त्या पितरौ परमार्थवत्

218.10

तं तदा चार्जुनं दृष्ट्वा जमदग्निः प्रतापवान् ।
चरन्तं मृगयां गत्वा ह्यातिथ्येन न्यमन्त्रयत्

218.11

तथेति चोक्त्वा स नृपः सभृत्यबलवाहनः ।
जगाम चाश्रमं पुण्यमृषेस्तस्य महात्मनः

218.12

तत्क्षणाद् एव सम्पन्नं श्रिया परमया वृतम् ।
विस्मयं परमं तत्र दृष्ट्वा राजा जगाम ह

218.13

गतमात्रस्तु सिद्धेन परमान्नेन भोजितः ।
सभृत्यबलवान्राजा ब्राह्मणेन यदृच्छया ।
किमेतद् इति पप्रच्छ कारणं शक्तिमेव च

218.14

कामधेनोः प्रभावं तं ज्ञात्वा प्राह ततो द्विजम् ।
दक्षिणां देहि मे विप्र कल्मषां धेनुमुत्तमाम्

218.15

शतं शतसहस्राणाम् अयुतं नियुतं परम् ।
भूषितानां च धेनूनां ददामि तव चार्बुदम्

218.16

जमदग्निर् उवाच:
अयुतैः प्रयुतैर् नाहं शतकोटिभिरुत्तमाम् ।
कामधेनुमिमां तात न दद्मि प्रतिगम्यताम्

218.17

एवमुक्तः स राजेन्द्रस् तेन विप्रेण भारत ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत्

218.18

यस्येदृशः कामचारो मय्यपि द्विजपांसन ।
अहं ते पश्यतस्तस्मान्नयामि सुरभिं गृहात्

218.19

द्विज उवाच:
कः क्रीडति सरोषेण निर्भयो हि महाहिना ।
मृत्युदृष्टोतरेणापि मम धेनुं नयेत यः

218.20

एवमुक्त्वा महादण्डं ब्रह्मदण्डमिवापरम् ।
गृहीत्वा परमक्रुद्धो जमदग्निरुवाच ह

218.21

यस्यास्ति शक्तिस्तेजो वा क्षत्रियस्य कुलाधमः ।
धेनुं नयतु मे सद्यः क्षीणायुः सपरिच्छदः

218.22

एतच्छ्रुत्वा वचः क्रूरं हैहयः शतशो वृतः ।
धावमानः क्षितितले ब्रह्मदण्डहतो ऽपतत्

218.23

हुंकृतेन ततो धेन्वाः खड्गपाशासिपाणयः ।
निर्गच्छन्तः प्रदृश्यन्ते कल्मषायाः सहस्रशः

218.24

नासापुटाग्राद्रोमाग्रात्किराता मागधा गुदात् ।
रन्ध्रान्तरेषु चोत्पन्नाः शतशो ऽथ सहस्रशः

218.25

एवमन्यो ऽन्यमाहत्य हैहयष्टङ्कणान्दहन् ।
विनाशं सह विप्रेण गता ह्यर्जुनतेजसा

218.26

कार्तवीर्यो जयं लब्ध्वा संख्ये हत्वा द्विजोत्तमम् ।
जगाम स्वां पुरीं हृष्टः कृतान्तवशमोहितः

218.27

ततस्त्वरान्वितः प्राप्तः पश्चाद्रामो गते रिपौ ।
आक्रन्दमानां जननीं ददर्श पितुरन्तिके

218.28

राम उवाच:
केनेदमात्मनाशाय ह्यज्ञानात् साहसं कृतम् ।
मम तातं जिघांसुर्यो द्रष्टुं मृत्युमिहेच्छति

218.29

ततः सा रामवाक्येन गतसत्त्वेव विह्वला ।
उदरं करयुग्मेन ताडयन्ती ह्युवाच तम्

218.30

अर्जुनेन नृशंसेन क्षत्रियैर् अपरैः सह ।
इहागत्य पिता तेन निहतो बाहुशालिना

218.31

तं पश्य निहतं तातं गतासुं गतचेतसम् ।
संस्कृत्य विधिवत्पुत्र तर्पयस्व यथातथम्

218.32

एतच्छ्रुत्वा स वचनं जननीम् अभिवाद्य ताम् ।
प्रतिज्ञाम् अकरोद् यां तां शृणुष्व च नराधिप

218.33

त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रियकुलान्वयाम् ।
स्नात्वा च तेषाम् असृजा तर्पयिष्यामि ते पतिम्

218.34

तस्यापि परशुना बाहून् कार्तवीर्यस्य दुर्मतेः ।
छित्त्वा पास्यामि रुधिरमिति सत्यं शृणुष्व मे

218.35

एवं प्रतिज्ञां कृत्वासौ जामदग्न्यः प्रतापवान् ।
क्रोधेन महताविष्टः संस्कृत्य पितरं ततः

218.36

माहिष्मतीं पुरीं रामो जगाम क्रोधमूर्छितः ।
छित्त्वा बाहुवनं तस्य हत्वा तं क्षत्रियाधमम्

218.37

जगाम क्षत्रियान्ताय पृथिवीम् अवलोकयन् ।
सप्तद्वीपार्णवयुतां सशैलवनकाननाम्

218.38

पूर्वतः पश्चिमामाशां दक्षिणोत्तरतः कुरून् ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्

218.39

स तेषु रुधिराम्भस्तु ह्रदेषु क्रोधमूर्छितः ।
पित्ःन् संतर्पयामास रुधिरेणेति नः श्रुतम्

218.40

अथर्चीकादय उपेत्य पितरो ब्राह्मणर्षभम् ।
तं क्षमस्वेति जगदुस् ततः स विरराम ह

218.41

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समं तपं चक्रम् इति पुण्यं तत्परिकीर्तितम्

218.42

निवर्त्य कर्मणस्तस्मात् पित्ःन् प्रोवाच पाण्डव ।
रामः परमधर्मात्मा यदिदं रुधिरं मया

218.43

क्षिप्तं पञ्चसु तीर्थेषु तद्भूयात् तीर्थमुत्तमम् ।
तथेत्युक्त्वा तु ते सर्वे पितरो ऽदृश्यतां गताः

218.44

एवं रामस्य संसर्गो देवमार्गे युधिष्ठिर ।
सर्वपापक्षयकरो दर्शनात्स्पर्शनान् नृणाम्

218.45

रेणुकाप्रत्ययार्थाय अद्यापि पितृदेवताः ।
दृश्यन्ते देवमार्गस्थाः सर्वपापक्षयंकराः

218.46

तत्र तीर्थे तु राजेन्द्र नर्मदोदधिसङ्गमे ।
स्थानं कृत्वा विधानेन मुच्यन्ते पातकैर्नराः

218.47

कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः ।
अनेन तत्र मन्त्रेण स्नातव्यं नृपसत्तम

218.48

नमस्ते विष्णुरूपाय नमस्तुभ्यम् अपां पते ।
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ।
इति स्पर्शनमन्त्रः

218.49

अग्निश्च तेजो मृडया च देहे रेतो ऽथ विष्णुरमृतस्य नाभिः ।
एतद् ब्रुवन् पाण्डव सत्यवाक्यं ततो ऽवगाहेत पतिं नदीनाम्

218.50

पञ्चरत्नसमायुक्तं फलपुष्पाक्षतैर्युतम् ।
मन्त्रेणानेन राजेन्द्र दद्यादर्घं महोदधेः

218.51

सर्वरत्ननिधानस्त्वं सर्वरत्नाकराकरः ।
सर्वामरप्रधानेश गृहाणार्घं नमो ऽस्तु ते ।
इत्यर्घमन्त्रः

218.52

आ जन्मजनितात् पापान्मामुद्धर महोदधे ।
याह्यर्चितो रत्ननिधे पर्वतान् पार्वणोत्तम ।
इति विसर्जनमन्त्रः

218.53

को ऽपरः सागराद्देवात्स्वर्गद्वारविपाटन ।
तत्र सागरपर्यन्तं महातीर्थमनुत्तमम्

218.54

जामदग्न्येन रामेण तत्र देवः प्रतिष्ठितः ।
यत्र देवाः सगन्धर्वा मुनयः सिद्धचारणाः

218.55

उपासते विरूपाक्षं जमदग्निम् अनुत्तमम् ।
रेणुकां चैव ये देवीं पश्यन्ति भुवि मानवाः

218.56

प्रियवासे शिवे लोके वसन्ति कालमीप्सितम् ।
तत्र स्नात्वा नरो राजंस्तर्पयन्पितृदेवताः

218.57

तारयेन् नरकाद्घोरात् कुलानां शतमुत्तरम् ।
स्नात्वा दत्त्वात्र सहिताः श्रुत्वा वै भक्तिपूर्वकम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc