भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 217

217.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 217
श्रीमार्कण्डेय उवाच:
एरण्डीसङ्गमं गच्छेत् सुरासुरनमस्कृतम् ।
तत्तु तीर्थं महापुण्यं महापातकनाशनम्

217.2

उपवासपरो भूत्वा नियतेन्द्रियमानसः ।
तत्र स्नात्वा विधानेन मुच्यते ब्रह्महत्यया

217.3

तत्र तीर्थे तु यो भक्त्या प्राणत्यागपरो भवेत् ।
अनिवर्तिका गतिस् तस्य रुद्रलोकाद् असंशयम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc