रेवाखाण्ड (संशोधित पाठ) · अध्याय 214
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 214
श्रीमार्कण्डेय उवाच:
चतुर्थं सम्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते
कपाली कान्थिको भूत्वा यथा स व्यचरन्महीम् ।
पिशाचैर् राक्षसैर् भूतैर् डाकिनीयोगिनीवृतः
भैरवं रूपमास्थाय प्रेतासनपरिग्रहः ।
त्रैलोक्यस्याभयं दत्त्वा चचार विपुलं तपः
आषाढी तु कृता तत्र ह्याषाढीनाम विश्रुतम् ।
कन्था मुक्ता ततो ऽन्यत्र देवेन परमेष्ठिना
तदाप्रभृति राजेन्द्र स कन्थेश्वर उच्यते ।
तस्य दर्शनमात्रेण ह्यश्वमेधफलं लभेत्
देवो मार्गे पुनस्तत्र भ्रमते च यदृच्छया ।
विक्रीणाति बलाकारो दृष्ट्वा चोक्तो हरेण तु
यदि भद्र न चेत्कोपं करोषि मयि साम्प्रतम् ।
बलाभिर्भर मे लिङ्गं ददामि बहु ते धनम्
एवमुक्तो ऽथ देवेन स वणिग्लोभमोहितः ।
योजयामास बलका लिङ्गे चोत्तममध्यमान्
तावद्यावत्क्षयं सर्वे गताः काले सुसंचिताः ।
स्थितं समुन्नतं लिङ्गं दृष्ट्वा शोकमुपागमत्
कृत्वा तु खण्डखण्डानि स देवः परमेश्वरः ।
उवाच प्रहसन्वाक्यं तं दृष्ट्वा गतसाध्वसम्
न च मे पूरितं लिङ्गं यास्यामि यदि मन्यसे ।
ददामि तत्र वित्तं ते यदि लिङ्गं प्रपूरितम्
वणिगुवाच:
अधन्यः कृतपुण्यो ऽहं निग्राह्यः परमेश्वर ।
तव प्रियम् अकुर्वाणः शोचिष्ये शाश्वतीः समाः
एतच्छ्रुत्वा वचस् तस्य वणिक्पुत्रस्य भारत ।
असंक्षयं धनं दत्त्वा स्थितस् तत्र महेश्वरः
तदा प्रभृति राजेन्द्र बलाकैरिव भूषितम् ।
प्रत्ययार्थं स्थितं लिङ्गं लोकानुग्रहकाम्यया
देवेन रचितं पार्थ क्रीडया सुप्रतिष्ठितम् ।
देवमार्गम् इति ख्यातं त्रिषु लोकेषु विश्रुतम् ।
पश्यन् प्रपूजयन् वापि सर्वपापैः प्रमुच्यते
देवमार्गे तु यो गत्वा पूजयेद् बलाकेश्वरम् ।
पञ्चायतनमासाद्य रुद्रलोकं स गच्छति
देवमार्गे मृतानां तु नराणां भावितात्मनाम् ।
न भवेत् पुनरावृत्ती रुद्रलोकात् कदाचन
देवमार्गस्य माहात्म्यं भक्त्या श्रुत्वा नरोत्तम ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0