रेवाखाण्ड (संशोधित पाठ) · अध्याय 213
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वादशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 213
श्रीमार्कण्डेय उवाच:
पुनर् अन्यत् प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते
अबालो बालरूपेण ग्रामण्यैर् बालकैः सह ।
आमलैः क्रीडते शम्भुस्तत्ते वक्ष्यामि भारत
सर्वैस्तैर् आमलाः क्षिप्ता ये ते देवेन पाण्डव ।
आनीतास्तत्क्षणादेव ततः पश्चात् क्षिपेद्धरः
यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् ।
तावत्तमामलं भूतं पश्यन्ति परमेश्वरम्
तृतीये चैव यत्कर्म देवदेवस्य धीमतः ।
स्थानानां परमं स्थानम् आमलेश्वरमुत्तमम्
तेन पूजितमात्रेण प्राप्यते परमं पदम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0