रेवाखाण्ड (संशोधित पाठ) · अध्याय 206
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमो ऽध्यायः॥
र्क्व् अध्याय 206
श्रीमार्कण्डेय उवाच:
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् ।
महादेवकृतं पुण्यं सर्वकामफलप्रदम्
तत्र तीर्थे महादेवो दशकन्या गुणान्विताः ।
ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह
तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् ।
सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम्
तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम्
तेन दानोत्थपुण्येन पूतात्मानो नराधिप ।
वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ
ततः कालेन महता त्विह लोके नरेश्वर ।
मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत्
तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय काञ्चनम् ।
सम्प्रयच्छति शान्ताय सो ऽत्यन्तं सुखम् अश्नुते
वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् ।
तत्सर्वं विलयं याति स्वर्णदानेन भारत
नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् ।
तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः
तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत् तावद् यावद् आभूतसम्प्लवम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0