भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 207

207.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 207
श्रीमार्कण्डेय उवाच:
तस्याग्रे पावनं तीर्थं स्वर्णबिन्द्विति विश्रुतम् ।
यत्र स्नात्वा दिवं यान्ति मृताश्च न पुनर्भवम्

207.2

तत्र तीर्थे तु यः स्नात्वा दत्ते विप्राय काञ्चनम् ।
तेन यत्तु फलं प्रोक्तं तच्छृणुष्व महीपते

207.3

सर्वेषाम् एव रत्नानां काञ्चनं रत्नमुत्तमम् ।
अग्नितेजःसमुद्भूतं तेन तत्परमं भुवि

207.4

तेनैव दत्ता पृथिवी सशैलवनकानना ।
सपत्तनपुरा सर्वा काञ्चनं यः प्रयच्छति

207.5

मानसं वाचिकं पापं कर्मणा यत्पुरा कृतम् ।
तत्सर्वं नश्यति क्षिप्रं स्वर्णदानेन भारत

207.6

स्वर्णदानं तु यो दत्त्वा ह्यपि वालाग्रमात्रकम् ।
तत्र तीर्थे मृतो याति दिवं नास्त्यत्र संशयः

207.7

तत्र विद्याधरैः सिद्धैर् विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम्

207.8

पूर्णे तत्र ततः काले प्राप्य मानुष्यमुत्तमम् ।
सुवर्णकोटिसहिते गृहे वै जायते द्विजः

207.9

सर्वव्याधिविनिर्मुक्तः सर्वलोकेषु पूजितः ।
जीवेद्वर्षशतं साग्रं राजसं सत्सु विश्रुतः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc