भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 205

205.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 205
श्रीमार्कण्डेय उवाच:
गच्छेत् ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम्

205.2

यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् ।
तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता

205.3

क्षेत्रपालो वसेत्तत्र ढौण्ढेशो नाम नामतः ।
तस्य चाराधनं कृत्वा नारी वा पुरुषो ऽपि वा

205.4

वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् ।
अपुत्रो लभते पुत्रमधनो धनमुत्तमम्

205.5

नारी नरस्तथाप्येवं लभते काममुत्तमम् ।
स्पर्शनाद् दर्शनात् तस्य तीर्थस्य विधिपूर्वकम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc