भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 203

203.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 203
श्रीमार्कण्डेय उवाच:
ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः

203.2

तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः ।
तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी

203.3

कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।
तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः

203.4

तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् ।
तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः

203.5

नरकाद् उद्धरत्य् आशु पुरुषानेकविंशतिम् ।
तिलोदकप्रदानेन किमुत श्राद्धदो नरः

203.6

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc