भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 202

202.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 202
मार्कण्डेय उवाच:
तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् ।
प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम्

202.2

तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः ।
शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम्

202.3

प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप ।
तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले

202.4

देवान् ऋषीन् पित्ःंश्चान्यांस् तर्पयेत् तिलवारिणा ।
हिरण्यं ब्राह्मणे दद्यात् संतर्प्य च हुताशनम्

202.5

गन्धमाल्यैस् तथा धूपैस् ततः सम्पूजयेच्छिवम् ।
अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम्

202.6

विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः ।
गीयमानस्तु गन्धर्वैर् रुद्रलोकं स गच्छति

202.7

शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc