भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 197

197.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसतीर्थमाहात्म्यवर्णनं नाम षण्णवत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 197
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं गच्छेत् सूर्यतीर्थम् अनुत्तमम् ।
मूलस्थानमिति ख्यातं पद्मजस्थापितं शुभम्

197.2

मूलश्रीपतिना देवी प्रोक्ता स्थापय भास्करम् ।
श्रुत्वा देवोदितं देवी स्थापयामास भास्करम्

197.3

प्रोच्यते नर्मदातीरे मूलस्थानाख्यभास्करः

197.4

तत्र तीर्थे नरो यस्तु स्नात्वा नियतमानसः ।
संतर्प्य पितृदेवांश्च पिण्डेन सलिलेन च

197.5

मूलस्थानं ततः पश्येत् स गच्छेत् परमां गतिम् ।
गुह्याद्गुह्यतरस्तत्र विशेषस्तु श्रुतो मया

197.6

समागमे मुनीनां तु शङ्कराच्छशिशेखरात् ।
सदा वै शुक्लसप्तम्यां मूलमादित्यवासरः

197.7

तदा रेवाजलं गत्वा स्नात्वा संतर्प्य देवताः ।
पित्ःंश्च भरतश्रेष्ठ दत्त्वा दानं स्वशक्तितः

197.8

करवीरैस् ततो गत्वा रक्तचन्दनवारिणा ।
संस्थाप्य भास्करं भक्त्या सम्पूज्य च यथाविधि

197.9

ततः सागुरुकैर् धूपैः कुन्दरैश्च विशेषतः ।
धूपयेद् देवदेवेशं दीपान् बोध्य दिशो दश

197.10

उपोष्य जागरं कुर्याद्गीतवाद्यं विशेषतः ।
एवं कृते महीपाल न भवेद् उग्रदुःखभाक्

197.11

सूर्यलोके वसेत् तावद् यावत् कल्पशतत्रयम् ।
गन्धर्वैर् अप्सरोभिश्च सेव्यमानो नृपोत्तम

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc