रेवाखाण्ड (संशोधित पाठ) · अध्याय 196
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 196
श्रीमार्कण्डेय उवाच:
ततो गच्छेद् धराधीश हंसतीर्थमनुत्तमम् ।
यत्र हंसस्तपस्तप्त्वा ब्रह्मवाहनतां गतः
हंसतीर्थे नरः स्नात्वा दानं दत्त्वा च काञ्चनम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति
हंसयुक्तेन यानेन तरुणादित्यवर्चसा ।
सर्वकामसमृद्धेन सेव्यमानो ऽप्सरोगणैः
तत्र भुक्त्वा यथाकामं सर्वान् भोगान् यथेप्सितान् ।
जातिस्मरो हि जायेत पुनर्मानुष्यम् आगतः
संन्यासेन त्यजेद् देहं मोक्षम् आप्नोति भारत
एतत्ते कथितं पार्थ हंसतीर्थस्य यत्फलम् ।
सर्वपापहरं पुण्यं सर्वदुःखविनाशनम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0