रेवाखाण्ड (संशोधित पाठ) · अध्याय 195
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 195
युधिष्ठिर उवाच:
देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् ।
फलं किं स्नानदानादिकारिणां जायते मुने
मार्कण्डेय उवाच:
पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि ।
सेवितानि महाबाहो तानि ध्यातानि विष्णुना
समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर ।
तत् तीर्थं वैष्णवं पुण्यं देवतीर्थम् इति श्रुतम्
कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् ।
पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम्
देवतीर्थसमं नास्ति तीर्थम् अत्र परत्र च ।
यत्प्राप्य मनुजस्तप्येन्न कदाचिद् युधिष्ठिर
देवैरुक्तानि तीर्थानि यो ऽत्र स्नानं समाचरेत् ।
देवतीर्थे स सर्वत्र स्नातो भवति मानवः
एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि ।
संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे
सूर्यग्रहे ऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते ।
स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि
यद्ददाति हिरण्यानि दानानि विधिवन्नृप ।
तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा
भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् ।
वज्रदानमनन्तं च फलं प्राह शतक्रतुः
सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः ।
सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम्
देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते ।
तदनन्तफलं प्राह बृहस्पतिरुदारधीः
देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप ।
देवतीर्थे नरः स्नात्वा श्रीपतिं यो ऽनुपश्यति
सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् ।
दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप
यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते ।
देवतीर्थे विप्रभोज्यं हरिम् उद्दिश्य यश्चरेत्
स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर ।
देवतीर्थे नरो नारी स्नात्वा नियतमानसौ
उपोष्यैकादशीं भक्त्या पूजयेद् यः श्रियः पतिम् ।
रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम्
द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले ।
विप्रदाम्पत्यम् अभ्यर्च्य विधिवत्कुरुनन्दन
वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः ।
अक्षये विष्णुलोके ऽसौ मोदते चरितव्रतः
यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् ।
रात्रौ जागरणं कुर्याद् वेदशास्त्रविधानतः
धर्मराजकृतां पापां न स पश्यति यातनाम् ।
पञ्चरात्रविधानेन श्रीपतिं यो ऽर्चयिष्यति
दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् ।
स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ
राज्यदां वा महाभाग पुत्रदां भाग्यदाम् अथ ।
सुकलत्रप्रदां वापि विष्णोर् भक्तिप्रदाम् इति
तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन ।
यो ऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम्
विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा ।
नारायणगिरिं वापि गृहे वैकादशीतिथौ
भक्तिमाञ्छ्रद्धया युक्तः क्षीरैस्तीर्थोदकैरपि ।
सुसूक्ष्मैर् अहतैर् वस्त्रैर् महाकौशेयकैर् नृप
विचित्रैर् नेत्रजैर् वापि धूपैरगुरुचन्दनैः ।
गुग्गुलैर् घृतमिश्रैश्च नैवेद्यैर् विविधैर् अपि
पायसाद्यैर् मनुष्येन्द्र पयसा वा युधिष्ठिर ।
पिष्टदीपैः सुविमलैर् वर्धमानैर् मनोहरैः
पूजयित्वा नरो याति यथा तच्छृणु भारत ।
शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः
देवलोकान् अतिक्रम्य विष्णुलोकं प्रपद्यते ।
यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम्
चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् ।
नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम्
नीराजने तु देवस्य प्रातर्मध्ये दिने तथा ।
सायं च नियतो नित्यं यः पश्येत् पूजयेद्धरिम्
स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् ।
आयुःश्रीवर्धनं पुंसां चक्षुषाम् अपि पूरकम्
उपपापहरं चैव सदा नीराजनं हरेः ।
तदा नीराजनाकाले यो हरेः पठति स्तवम्
स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना ।
हरेर् नीराजनाशेषं पाणिभ्यां यः प्रयच्छति
संगृह्य चक्षुषी तेन योजयेन् मार्जयन्मुखम् ।
तिमिरादीनक्षिरोगान् नाशयेद् दीप्तिमन्मुखम्
भवत्य् अशेषदुष्टानां नाशायालं नरोत्तम ।
दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः
स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती ।
सप्तद्वीपवती तेन ससागरवनापगा
प्रदक्षिणीकृता स्याद्वै धरणी शङ्करो ऽब्रवीत् ।
इदं यः पठ्यमानं तु शृणुयात् पठते ऽपि वा
स्मरणं सो ऽतसमये विपाप्मा प्राप्नुयाद्धरेः ।
इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम्
माहात्म्यं श्रावयेद् विप्राञ्छ्रीपतेः श्राद्धकर्मणि ।
घृतेन मधुना तेन तर्पिताः स्युः पितामहाः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0