भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 19

19.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्यवर्णनं नामाष्टादशो ऽध्यायः ॥
र्क्व् अध्याय 19
श्रीमार्कण्डेय उवाच:
ततस्त्वेकार्णवे तस्मिन् मुमूर्षुरहमातुरः ।
काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम

19.2

शृणोम्यर्णवमध्यस्थो निःशब्दस्तिमिते तदा ।
अम्भोरवमनौपम्यं दिशो दश विनादिनम्

19.3

हंसकुदेन्दुसंकाशां हारगोक्षीरपाण्डुराम् ।
नानारत्नविचित्राङ्गीं स्वर्णशृङ्गां मनोरमाम्

19.4

सुरैः प्रवालकमयैर्लाङ्गुलध्वजशोभिताम् ।
प्रलम्बघोणां नर्दन्तीं खुरैर् अर्णवगाहिनीम्

19.5

गां ददर्शाहमुद्विग्नो मामेवाभिमुखीं स्थिताम् ।
किंकिणीजालमुक्ताभिः स्वर्णघण्टासमावृताम्

19.6

तस्याश्चरणविक्षेपैः सर्वमेकार्णवं जलम् ।
विक्षिप्तफेनपुञ्जौघैर्नृत्यन्तीव समं ततः

19.7

ररास सलिलोत्क्षेपैः क्षोभयन्ती महार्णवम् ।
सा मामाह महाभाग श्लक्ष्णगम्भीरया गिरा

19.8

मा भैषीर् वत्स वत्सेति मृत्युस्तव न विद्यते ।
महादेवप्रसादेन न मृत्युस् ते ममापि च

19.9

ममाश्रयस्व लाङ्गूलं त्वामतस्तारयाम्यहम् ।
घोराद् अस्माद् भयाद् विप्र यावत् संप्लवते जगत्

19.10

क्षुत्तृषाप्रतिघातार्थं स्तनौ मे त्वं पिबस्व ह ।
पयो ऽमृताश्रयं दिव्यं तत्पीत्वा निर्वृतो भव

19.11

तस्यास्तद्वचनं श्रुत्वा हर्षात्पीतो मया स्तनः ।
न क्षुत्तृषा पीतमात्रे स्तने मह्यं तदाभवत्

19.12

दिव्यं प्राणबलं जज्ञे समुद्रप्लवनक्षमम् ।
ततस्तां प्रत्युवाचेदं का त्वमेकार्णवीकृते

19.13

भ्रमसे ब्रूहि तत्त्वेन विस्मयो मे महान्हृदि ।
भ्रमतो ऽत्र ममार्तस्य मुमूर्षोः प्रहतस्य

19.14

त्वं हि मे शरणं जाता भाग्यशेषेण सुव्रते

19.15

गौरुवाच:
किमहं विस्मृता तुभ्यं विश्वरूपा महेश्वरी ।
नर्मदा धर्मदा न्ःणां स्वर्गशर्मबलप्रदा

19.16

दृष्ट्वा त्वां सीदमानं तु रुद्रेणाहं विसर्जिता ।
तं द्विजं तारयस्वार्ये मा प्राणांस्त्यजतां जले

19.17

गोरूपेण विभोर्वाक्यात्त्वत्सकाशमिहागता ।
मा मृषावचनः शम्भुर्भवेदिति च सत्वरा

19.18

एवमुक्तस्तयाहं तु इन्द्रायुधनिभं शुभम् ।
लाङ्गूलमव्ययं ज्ञात्वा भुजाभ्याम् अवलम्बितः

19.19

ततो ऽतरं तं जलधिं लाङ्गूलध्वजमाश्रितः ।
असौ देवो महादेव इति मां प्रत्यभाषत

19.20

ततो युगसहस्रान्तम् अहं कालं तया सह ।
व्यचरं वै तमोभूते सर्वतः सलिलावृते

19.21

महार्णवे ततस् तस्मिन् भ्रमन्गोः पुच्छमाश्रितः ।
निर्वाते चान्धकारे च निरालोके निरामये

19.22

अकस्मात् सलिले तस्मिन्नतसीपुष्पसन्निभम् ।
विभिन्नांजनसङ्काशमाकाशमिव निर्मलम्

19.23

नीलोत्पलदलश्यामं पीतवाससमव्ययम् ।
किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा

19.24

भ्राजमानेन शिरसा खमिवात्यन्तरूपिणम् ।
कुण्डलोद्धष्टगल्लं तु हारोद्द्योतितवक्षसम्

19.25

जाम्बूनदमयैर् दिव्यैर् भूषणैर् उपशोभितम् ।
नागोपधानशयनं सहस्रादित्यवर्चसम्

19.26

अनेकबाहूरुधरं नैकवक्त्रं मनोरमम् ।
सुप्तमेकार्णवे वीरं सहस्राक्षशिरोधरम्

19.27

जटाजूटेन महता स्फुरद्विद्युत्समार्चिषा ।
एकार्णवं जगत्सर्वं व्याप्य देवं व्यवस्थितम्

19.28

ग्रसित्वा शङ्करः सर्वं सदेवासुरमानवम् ।
प्रपश्याम्यहमीशानं सुप्तमेकार्णवे प्रभुम्

19.29

सर्वव्यापिनमव्यक्तमनन्तं विश्वतोमुखम् ।
तस्य पादतलाभ्याशे स्वर्णकेयूरमण्डिताम्

19.30

विश्वरूपां महाभागां विश्वमायावधारिणीम् ।
श्रीमयीं ह्रीमयीं देवीं धीमयीं वाङ्मयीं शिवाम्

19.31

सिद्धिं कीर्तिं रतिं ब्राह्मीं कालरात्रिमयोनिजाम् ।
ताम् एवाहं तदात्यन्तमीश्वरान्तिकमास्थिताम्

19.32

अद्राक्षं चन्द्रवदनां धृतिं सर्वेश्वरीमुमाम्

19.33

शान्तं प्रसुप्तं नवहेमवर्णमुमासहायं भगवन्तमीशम् ।
तमोवृतं पुण्यतमं वीरष्ठं प्रदक्षिणीकृत्य नमस्करोमि

19.34

ततः प्रसुप्तः सहसा विबुद्धो रात्रिक्षये देववरः स्वभावात् ।
विक्षोभयन् बाहुभिर् अर्णवाम्भो जगत्प्रणष्टं सलिले विमृश्य

19.35

किं कार्यमित्येव विचिन्तयित्वा वाराहरूपो ऽभवदद्भुताङ्गः ।
महाघनाम्भोधरतुल्यवर्चाः प्रलम्बमालाम्बरनिष्कमाली

19.36

सशङ्खचक्रासिधरः किरीटी सवेदवेदाङ्गमयो महात्मा ।
त्रैलोक्यनिर्माणकरः पुराणो देवत्रयीरूपधरश्च कार्ये

19.37

स एव रुद्रः स जगज्जहार सृष्ट्यर्थमीशः प्रपितामहो ऽभूत् ।
संरक्षणार्थं जगतः स एव हरिः सुचक्रासिगदाब्जपाणिः

19.38

तेषां विभागो न हि कर्तुमर्हो महात्मनाम् एकशरीरभाजाम् ।
मीमांसाहेत्वर्थविशेषतर्कैर् यस्तेषु कुर्यात् प्रविभेदम् अज्ञः

19.39

स याति घोरं नरकं क्रमेण विभागकृद्द्वेषमतिर्दुरात्मा ।
या यस्य भक्तिः स तयैव नूनं देहं त्यजन् स्वं ह्यमृतत्वमेति

19.40

संमोहयन् मूर्तिभिर् अत्र लोकं स्रष्टा च गोप्ता क्षयकृत्स देवः ।
तस्मान् न मोहात्मकमाविशेत द्वेषं न कुर्यात् प्रविभिन्नमूर्तिः

19.41

वाराहमीशानवरो ऽप्यतो ऽसौ रूपं समास्थाय जगद्विधाता ।
नष्टे त्रिलोके ऽर्णवतोयमग्ने विमार्गितोयौघमये ऽन्तरात्मा

19.42

भित्त्वार्णवं तोयमथान्तरस्थं विवेश पातालतलं क्षणेन ।
जले निमग्नां धरणीं समस्तां समस्पृशत्पङ्कजपत्रनेत्राम्

19.43

विशीर्णशैलोपलशृङ्गकूटां वसुंधरां तां प्रलये प्रलीनाम् ।
दंष्ट्रैकया विष्णुरतुल्यसाहसः समुद्दधार स्वयमेव देवः

19.44

सा तस्य दंष्ट्राग्रविलम्बिताङ्गी कैलासशृङ्गाग्रगतेव ज्योत्स्ना ।
विभ्राजते साप्यसमानमूर्तिः शशाङ्कशृङ्गे च तडिद्विलग्ना

19.45

तामुज्जहारार्णवतोयमग्नां करी निमग्नामिव हस्तिनीं हठात् ।
नावं विशीर्णामिव तोयमध्याद् उदीर्णसत्त्वो ऽनुपमप्रभावः

19.46

स तां समुत्तार्य महाजलौघात् समुद्रमार्यो व्यभजत्समस्तम् ।
महार्णवेष्वेव महार्णवाम्भो निक्षेपयामास पुनर्नदीषु

19.47

शीर्णांश्च शैलान्स चकार भूयो द्वीपान्समस्तांश्च तथार्णवांश्च ।
शैलोपलैर्ये विचिताः समन्ताच्छिलोच्चयांस्तान्स चकार कल्पे

19.48

अनेकरूपं प्रविभज्य देहं चकार देवेन्द्रगणान्समस्तान् ।
मुखाच्च वह्निर्मनसश्च चन्द्रश्चक्षोश्च सूर्यः सहसा बभूव

19.49

जज्ञे ऽथ तस्येश्वरयोगमूर्तेः प्रध्यायमानस्य सुरेन्द्रसङ्घः ।
वेदाश्च यज्ञाश्च तथैव वर्णास् तथा हि सर्वौषधयो रसाश्च

19.50

जगत्समस्तं मनसा बभूव यत्स्थावरं किंचिदिहाण्डजं वा ।
जरायुजं स्वेदजम् उद्भिज्जं वा यत् किंचिद् आ कीटपिपीलकाद्यम्

19.51

ततो विजज्ञे मनसा क्षणेन अनेकरूपाः सहसा महेशा ।
चकार यन्मूर्तिभिर् अव्ययात्मा अष्टाभिर् आविश्य पुनः स तत्र

19.52

लीलां चकाराथ समृद्धतेजा अतो ऽत्र मे पश्यत एव विप्राः ।
तेषां मया दर्शनमेव सर्वं यावन्मुहूर्तात्समकारि भूप

19.53

कृत्वा त्वशेषं किल लीलयैव स देवदेवो जगतां विधाता ।
सर्वत्रदृक्सर्वग एव देवो जगाम चादर्शनमादिकर्ता

19.54

यत्तन्मुहूर्तादिह नामरूपं तावत् प्रपश्यामि जगत्तथैव ।
द्वीपैः समुद्रैर् अभिसंवृतं हि नक्षत्रतारादिविमानकीर्णम्

19.55

वियत्पयोदग्रहचक्रचित्रं नानाविधैः प्राणिगणैर् वृतं च ।
तां वै न पश्यामि महानुभावां गोरूपिणीं सर्वसुरेश्वरीं च

19.56

क्व सांप्रतं सेति विचिन्त्य राजन्विभ्रान्तचित्तस्त्वभवं तदैव ।
दिशो विभागानवलोकयान् ऋते पुनस्तां कथमीश्वराङ्गीम्

19.57

पश्यामि तामत्र पुनश्च शुभ्रां महाभ्रनीलां शुचिशुभ्रतोयाम् ।
वृक्षैरनेकैरुपशोभिताङ्गीं गजैस्तुरङ्गैर्विहगैर्वृतां च

19.58

यथा पुरातीरमुपेत्य देव्याः समास्थितश्चाप्यमरकण्टके तु ।
तथैव पश्यामि सुखोपविष्ट आत्मानम् अव्यग्रमवाप्तसौख्यम्

19.59

तथैव पुण्या मलतोयवाहां दृष्ट्वा पुनः कल्पपरिक्षये ऽपि ।
अम्बाम् इवार्याम् अनुकम्पमानाम् अक्षीणतोयां विरुजां विशोकः

19.60

एवं महत्पुण्यतमं च कल्पं पठन्ति शृण्वन्ति च ये द्विजेन्द्राः ।
महावराहस्य महेश्वरस्य दिने दिने ते विमला भवन्ति

19.61

अशुभशतसहस्रं ते विधूय प्रपन्नास्त्रिदिवममरजुष्टं सिद्धगन्धर्वयुक्तम् ।
विमलशशिनिभाभिः सर्व एवाप्सरोभिः सह विविधविलासैः स्वर्गसौख्यं लभन्ते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc