रेवाखाण्ड (संशोधित पाठ) · अध्याय 18
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये द्वादशादित्यरूपेण जगत्संहरणवर्णनं नाम सप्तदशो ऽध्यायः ॥
र्क्व् अध्याय 18
श्रीमार्कण्डेय उवाच:
निर्दग्धे ऽस्मिंस्ततो लोके सूर्यैरीश्वरसम्भवैः ।
सप्तभिश्चार्णवैः शुष्कैर्द्वीपैः सप्तभिरेव च
ततो मुखात् तस्य घना महोल्बणा निश्चेरुरिन्द्रायुधतुल्यरूपाः ।
घोराः पयोदा जगदन्धकारं कुर्वन्त ईशानवरप्रयुक्ताः
नीलोत्पलाभाः क्वचिदंजनाभा गोक्षीरकुन्देन्दुनिभाश्च केचित् ।
मयूरचन्द्राकृतयस् तथा ऽन्ये केचिद्विधूमानलसप्रभाश्च
केचिन्महापर्वतकल्परूपाः केचिन्महामीनकुलोपमाश्च ।
केचिद्गजेन्द्राकृतयः सुरूपाः केचिन्महाकूटनिभाः पयोदाः
चलत्तरङ्गोर्मिसमानरूपा महापुरोधाननिभाश्च केचित् ।
सगोपुराट्टालकसंनिकाशाः सविद्युदुल्काशनिमण्डितान्ताः
समावृताङ्गः स बभूव देवः संवर्तकोनाम गणः स रौद्रः ।
प्रवर्षमाणो जगदप्रमाणमेकार्णवं सर्वमिदं चकार
ततो महामेघविवर्धमानम् ईशानम् इन्द्राशनिभिर् वृताङ्गम् ।
ददर्श नाहं भयविह्वलाङ्गो गङ्गाजलौघैश्च समावृताङ्गः
गजाः पुनश्चैव पुनः पिबन्तो जगत् समन्तात् परिदह्यमानम् ।
आपूरितं चैव जगत् समन्तात् सर्वैश्च तैर्जग्मुरदर्शनं च ते
महार्णवाः सप्त सरांसि द्वीपा नद्यो ऽथ सर्वा अथ भूर्भुवश्च ।
आपूर्यमाणाः सलिलौघजालैर् एकार्णवं सर्वमिदं बभूव
न दृश्यते किंचिदहो चराचरं निरग्निचन्द्रार्कमये ऽपि लोके ।
प्रणष्टनक्षत्रतमोऽन्धकारे प्रशान्तवातास्तमितैकनीडेः
महाजलौघे ऽस्य विशुद्धसत्त्वा स्तुतिर्मया भूप कृता तदानीम् ।
ततोऽहमित्येव विचिन्तयानः शरण्यम् एकं क्व नु यामि शान्तम्
स्मरामि देवं हृदि चिन्तयित्वा प्रभुं शरण्यं जलसंनिविष्टः ।
नमामि देवं शरणं प्रपद्ये ध्यानं च तस्येति कृतं मया च
ध्यात्वा ततो ऽहं सलिलं ततार तस्य प्रसादादविमूढचेताः ।
ग्लानिः श्रमश्चैव मम प्रणष्टौ देव्याः प्रसादेन नरेन्द्रपुत्र
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0