भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 187

187.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 187
श्रीमार्कण्डेय उवाच:
जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः ।
कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम्

187.2

सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।
क्षेत्रपापविनाशाय कृपया च समुत्थितम्

187.3

पुरा कल्पे ऽसुरगणैराक्रान्ते भुवनत्रये ।
वेदोक्तकर्मनाशे च धर्मे च विलयं गते

187.4

देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च ।
कालाग्निरुद्राद् उत्पन्नो धूमः कालोद्भवोद्भवः

187.5

धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् ।
अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति

187.6

तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् ।
यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम्

187.7

तत्रावटं समुद्भूतं धूमावर्तस् ततो ऽभवत् ।
तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले

187.8

कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् ।
कालाग्निरुद्रनामानि स गच्छेत् परमां गतिम्

187.9

यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा ।
रिपुसंक्षयकृद्वापि सांतानिकमथापि वा ।
अत्र तीर्थे कृतं सर्वम् अचिरात् सिध्यते नृप

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc