रेवाखाण्ड (संशोधित पाठ) · अध्याय 188
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 188
श्रीमार्कण्डेय उवाच:
ततः परं महाराज चत्वारिंशत्क्रमान्तरे ।
शालग्रामं ततो गच्छेत् सर्वदैवतपूजितम्
यत्रादिदेवो भगवान्वासुदेवस्त्रिविक्रमः ।
स्वयं तिष्ठति लोकात्मा सर्वेषां हितकाम्यया
नारदेन तपस्तप्त्वा कृता शाला द्विजन्मनाम् ।
सिद्धिक्षेत्रं भृगुक्षेत्रं ज्ञात्वा रेवातटे स्वयम्
शालग्रामाभिधो देवो विप्राणां त्वधिवासितः ।
साधूनां चोपकाराय वासुदेवः प्रतिष्ठितः
योगिनामुपकाराय योगिध्येयो जनार्दनः ।
शालग्रामेति तेनैव नर्मदातटमाश्रितः
मासि मार्गशिरे शुक्ला भवत्येकादशी यदा ।
स्नात्वा रेवाजले पुण्ये तद्दिनं समुपोषयेत्
रात्रौ जागरणं कुर्यात् सम्पूज्य च जनार्दनम् ।
पुनः प्रभातसमये द्वादश्यां नर्मदाजले
स्नात्वा संतर्प्य देवांश्च पित्ःन्मात्ःस् तथैव च ।
श्राद्धं कृत्वा ततः पश्चात् पितृभ्यो विधिपूर्वकम्
शक्तितो ब्राह्मणान्पूज्य स्वर्णवस्त्रान्नदानतः ।
क्षमापयित्वा तान्विप्रांस्तथा देवं खगध्वजम्
एवं कृते महाराज यत्पुण्यं च भवेन्न्ःणाम् ।
शृणुष्वावहितो भूत्वा तत्पुण्यं नृपसत्तम
न शोकदुःखे प्रतिपत्स्यतीह जीवन्मृतो याति मुरारिसाम्यम् ।
महान्ति पापानि विसृज्य दुग्धं पुनर्न मातुः पिबते स्तनोद्यत्
शालग्रामं पश्यते यो हि नित्यं स्नात्वा जले नार्मदे ऽघौघहारे ।
स मुच्यते ब्रह्महत्यादिपापैर्नारायणानुस्मरणेन तेन
वसन्ति ये संन्यसित्वा च तत्र निगृह्य दुःखानि विमुक्तसङ्घाः ।
ध्यायन्तो वै सांख्यवृत्त्या तुरीयं पदं मुरारेस्ते ऽपि तत्रैव यान्ति
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0