भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 17

17.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये ब्रह्मकृतशिवस्तुतिवर्णनं नाम षोडशो ऽध्यायः ॥
र्क्व् अध्याय 17
श्रीमार्कण्डेय उवाच:
एवं संस्तूयमानस्तु ब्रह्माद्यैर् मुनिपुंगवैः ।
ब्रह्मलोकगतैस्तत्र संजहार जगत्प्रभुः

17.2

स तद्भीमं महारौद्रं दक्षिणं वक्त्रमव्ययम् ।
महादंष्ट्रोत्कटारावं पातालतलसंनिभम्

17.3

विद्युज्ज्वलनपिङ्गाक्षं भैरवं लोमहर्षणम् ।
महाजिह्वं महादंष्ट्रं महासर्पशिरोधरम्

17.4

महासुरशिरोमालं महाप्रलयकारणम् ।
ग्रसत्समुद्रनिहितवातवारिमयं हविः

17.5

वडवामुखसङ्काशं महादेवस्य तन्मुखम् ।
जिह्वाग्रेण जगत्सर्वं लेलिहानमपश्यत

17.6

योजनानां सहस्राणि सहस्राणां शतानि च ।
दिशो दश महाघोरा मांसमेदोवसोत्कटाः

17.7

तस्य दंष्ट्रा व्यवर्धत शतशो ऽथ सहस्रशः ।
सासुरान्सुरगन्धर्वान् सयक्षोरगराक्षसान्

17.8

तस्य दंष्ट्राग्रसंलग्नान्स ददर्श पितामहः ।
दन्तयन्त्रान्तसंविष्टं विचूर्णितशिरोधरम्

17.9

जगत् पश्यामि राजेन्द्र विशन्तं व्यादिते मुखे ।
नानातरङ्गभङ्गाङ्गा महाफेनौघसंकुलाः ।
यथा नद्यो लयं यान्ति समुद्रं प्राप्य सस्वनाः

17.10

तथा ततं विश्वमिदं समस्तमनेकजीवार्णवदुर्विगाह्यम् ।
विवेश रुद्रस्य मुखं विशालं ज्वलत्तदुग्रं घननादघोरम्

17.11

ज्वालास्ततस्तस्य मुखात्सुघोराः सविस्फुलिङ्गा बहुलाः सधूमाः ।
अनेकरूपा ज्वलनप्रकाशाः प्रदीपयन्तीव दिशो ऽखिलाश्च

17.12

ततो रविज्वालसहस्रमालि बभूव वक्त्रं चलजिह्वदंष्ट्रम् ।
महेश्वरस्याद्भुतरूपिणस् तदा स द्वादशात्मा प्रबभूव एकः

17.13

ततस्ते द्वादशादित्या रुद्रवक्त्राद्विनिर्गताः ।
आश्रित्य दक्षिणामाशां निर्दहन्तो वसुंधराम्

17.14

भौमं यज्जीवनं किंचिन्नानावृक्षतृणालयम् ।
शुष्कं पूर्वमनावृष्ट्या सकलाकुलभूतलम्

17.15

तद्दीप्यमानं सहसा सूर्यैस् तै रुद्रसम्भवैः ।
धूमाकुलमभूत्सर्वं प्रणष्टग्रहतारकम्

17.16

जज्वाल सहसा दीप्तं भूमण्डलमशेषतः ।
ज्वालामालाकुलं सर्वमभूदेतच्चराचरम्

17.17

सप्तद्वीपसमुद्रेषु सरित्सु च सरस्सु च अग्निरत्ति जगत्सर्वमाज्याहुतिमिवाध्वरे

17.18

विशालतेजसा दीप्ता महाज्वालासमाकुलाः ।
ददहुर् वै जगत्सर्वमादित्या रुद्रसम्भवाः

17.19

आदित्यानां रश्मयश्च संस्पृष्टा वै परस्परम् ।
एवं ददाह भगवांस्त्रैलोक्यं सचराचरम्

17.20

सप्तद्वीपप्रमाणस्तु सो ऽग्निर्भूत्वा महेश्वरः ।
सप्तद्वीपसमुद्रान्तां निर्ददाह वसुंधराम्

17.21

सुमेरुमन्दरान्तां च निर्दहुर् वसुधां तदा ।
भित्त्वा तु सप्तपातालं नागलोकं ततो ऽदहत्

17.22

भूम्यधः सप्तपातालान्निर्दहंस्तारकैः सह ।
चचाराग्निः समन्तात्तु निर्दहन्वै युधिष्ठिर

17.23

धम्यमान इवाङ्गारैर् लोहरात्रिर् इव ज्वलन् ।
तथा तत्प्राज्वलत्सर्वं संवर्ताग्निप्रदीपितम्

17.24

निर्वृक्षा निस्तृणा भूमिर् निर्निर्झरसरः सरित् ।
विशीर्णशैलशृङ्गौघा कूर्मपृष्ठोपमाभवत्

17.25

ज्वालामालाकुलं कृत्वा जगत्सर्वं चिदामकम् ।
महारूपधरो रुद्रो व्यतिष्ठत महेश्वरः

17.26

समातृगणभूयिष्ठा सयक्षोरगराक्षसा ।
ततो देवी महादेवं विवेश हरिलोचना

17.27

निर्वाणं परमापन्ना शान्तेव शिखिनः शिखा ।
जगत्सर्वं हि निर्दग्धं त्रिभिर्लोकैः सहानघ

17.28

रुद्रप्रसादान्मुक्त्वा मां नर्मदां चाप्ययोनिजाम् ।
युगानामयुतं देवो मया चाद्य बुभक्षणात्

17.29

पुरा ह्याराधितः शूली तेनाहमजरामरः ।
अघमर्षणघोरं च वामदेवं च त्र्यम्बकम्

17.30

ऋषभं त्रिसुपर्णं च दुर्गां सावित्रमेव च ।
बृहदारण्यकं चैव बृहत्साम तथोत्तरम्

17.31

रौद्रीं परमगायत्रीं शिवोपनिषदं तथा ।
यथा प्रतिरथं सूक्तं जप्त्वा मृत्युंजयं तथा

17.32

सरित्सागरपर्यन्ता वसुधा भस्मसात्कृता ।
वर्जयित्वा महाभागां नर्मदाममृतोपमाम्

17.33

महेन्द्रो मलयः सह्यो हेमकूटो ऽथ माल्यवान् ।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः

17.34

द्वादशादित्यनिर्दग्धाः शैलाः शीर्णशिलाः पृथक् ।
भस्मीभूतास्तु दृश्यन्ते न नष्टा नर्मदा तदा

17.35

हिमवान्हेमकूटश्च निषधो गन्धमादनः ।
माल्यवांश्च गिरिश्रेष्ठो नीलः श्वेतो ऽथ शृङ्गवान्

17.36

एते पर्वतरा जानो देवगन्धर्वसेविताः ।
युगान्ताग्निविनिर्दग्धाः सर्वे शीर्णमहाशिलाः

17.37

एवं मया पुरा दृष्टो युगान्ते सर्वसंक्षयः ।
वर्जयित्वा महापुण्यां नर्मदां नृपसत्तम

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc