भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 172

172.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 172
श्रीमार्कण्डेय उवाच:
अथ ते ऋषयः सर्वे देवाश्चेन्द्रपुरोगमाः ।
माण्डव्यस्याश्रमे पुण्ये समीयुर्नर्मदातटे

172.2

शङ्खदुन्दुभिनादेन दीपिकाज्वलनेन च ।
अप्सरोगीतनादेन नृत्यन्त्यो वारयोषितः

172.3

कथानकैः स्तुवत्यन्ये तस्य शूलाग्रधारिणः ।
अष्टाशीतिसहस्राणि स्नातकानां तपस्विनाम्

172.4

समाजे त्रिदशैः सार्द्धं तत्र ते च दिदृक्षया ।
ब्रह्मविष्णुमहेशानास्तत्र हर्षात्समागताः

172.5

मातरो मल्लिकाद्याश्च क्षेत्रपाला विनायकाः ।
दिक्पाला लोकपालाश्च गङ्गाद्याश्च सरिद्वराः

172.6

ऋषिदेवसमाजे तु नित्यं हर्षप्रमोदने ।
तत्र राजा समायातः पौरजानपदैः सह

172.7

दृष्ट्वा कौतूहलं तत्र व्याकुलीकृतमानसम् ।
वित्रस्तमनसो भूत्वा भयात्सर्वे समास्थिताः

172.8

तस्मिन्समागमे दिव्ये ब्रह्मविष्ण्वीशमब्रुवन् ।
भो माण्डव्य महासत्त्व वरदास्ते ऽमरैः सह

172.9

अनेककष्टतपसा तव सिद्धिर्भविष्यति ।
प्रार्थयस्व यथाकामं यस्ते मनसि रोचते

172.10

अनादित्यमयं लोकं निर्वषट्कारमाकुलम् ।
नष्टधर्मं विजानीहि प्रकृतिस्थं कुरुष्व च ।
अनुग्रहं तु शाण्डिल्याः प्रार्थयाम द्विजोत्तम

172.11

एष ते कष्टदो राजा समायातस्तवाग्रतः ।
संभूषयस्व विप्रर्षे जनं देवासुरं गणम्

172.12

माण्डव्य उवाच:
यदि प्रसन्ना मे देवाः समायाताः सुरैः सह ।
त्रिकालमत्र तीर्थे च स्थातव्यम् ऋषिभिः सह

172.13

भवतां तु प्रसादेन रुजा मे शाम्यतां सदा ।
एवमस्त्विति देवेशा यावज्जल्पन्ति पाण्डव

172.14

तावद्रक्षो गृहीत्वा ऽग्रे कन्यां कामप्रमोदिनीम् ।
उवाच भगवञ्छापं पुरा दत्त्वोर्वशी मम

172.15

यदा कन्यां हरे रक्षःशापान्तस्ते भविष्यति ।
तेन मे गर्हितं कर्म शापेनाकृतबुद्धिना

172.16

क्षन्तव्यम् इति चोक्त्वा च गतश्चादर्शनं पुनः ।
गते चैव तु सा कन्या दृष्ट्वा पद्मदलेक्षणा

172.17

मन्त्रयित्वा सुरैः सर्वैर् दत्ता माण्डव्यधीमते ।
तां वज्रशूलिकां प्लाव्य पवित्रैर् नर्मदोदकैः

172.18

माण्डव्यम् ऋषिमुत्तार्य जयशब्दादिमङ्गलैः ।
विवाहयित्वा तां कन्यां माण्डव्यर्षिपुंगवः

172.19

अभिवाद्य च तान् सर्वान् दानसन्मानगौरवैः ।
अथ राजा समीपस्थो रत्नैश्च विविधैरपि

172.20

धिग्वादैर्निन्दितः सर्वैस्तैर्जनैर्भूषितः पुनः ।
राज्ञा च ब्राह्मणाः सर्वे भूषणाच्छादनाशनैः

172.21

सुवर्णकोटिदानेन तुष्टान्कृत्वा क्षमापिताः ।
वृत्ते विवाह आहूय शाण्डिलीं तामथाब्रवीत्

172.22

मानयस्व इमान् विप्रान् मोचयस्व दिवाकरम् ।
अपहृत्य तमो येन कृपा सद्यः प्रवर्तते

172.23

ऋषीणां वचनं श्रुत्वा शाण्डिली दुःखिताब्रवीत् ।
उदिते ऽर्के तु मे भर्ता मृत्युं यास्यति भो द्विजाः

172.24

तं कथं मोचयामीह ह्यात्मनो ऽनिष्टसिद्धये ।
क्रियाप्रवर्तनाच् चाद्य किं कार्यं मे महर्षयः

172.25

निःपुंसी स्त्री ह्यनाथाहं भवामि भवतो मतम् ।
तिष्ठ त्वमन्धकारे तु नेच्छामि रविणोदयम्

172.26

तेन वाक्येन ते सर्वे देवासुरमहर्षयः ।
शिरःसंचालनाः सर्वे साधु साध्विति चाब्रुवन्

172.27

पतिव्रते महाभागे शृणु वाक्यं तपोधने ।
मन्यसे यदि नः सर्वान्कुरुष्व वचनं च यत्

172.28

शाण्डिल्युवाच:
येन मे न मरेद्भर्ता येन सत्यं मुनेर् वचः ।
तत्कुरुध्वं विचार्याशु येन संवर्धते सुखम्

172.29

तस्यास्तद्वचनं श्रुत्वा स्वप्नावस्थाकृतो हृषिः ।
अन्तर्हितो मुहूर्तं च शाण्डिल्याश्च प्रपश्य ताम्

172.30

पुनरादाय ते सर्वे कृत्वा निर्व्रणसत्तनुम् स्नापितो नर्मदातोये शाण्डिल्यायै समर्पितः

172.31

ततः सा हृष्टमनसा पतिं दृष्ट्वा तु तैजसम् ।
प्रणम्य तान् ऋषीन् देवान् विमलार्कं जगत्कृतम्

172.32

क्रियाप्रवर्तिताः सर्वे देवगन्धर्वमानुषाः ।
हृष्टतुष्टा गताः सर्वे स्वमाश्रमपदं महत्

172.33

पतिव्रता स्वभर्त्रा सा मासमेवाश्रमे स्थिता ।
माण्डव्येनाप्यनुज्ञाता ययौ नत्वा स्वमाश्रमम्

172.34

गतेषु तेषु सर्वेषु स्थापयामास चाच्युतम् ।
माण्डव्येश्वरनामानं नारायण इति स्मृतम्

172.35

दिव्यं वर्षसहस्रं तु पूजयामास भारत ।
गतो ऽसावृषिसङ्घैश्च सहितो ऽमरपर्वतम्

172.36

तपस्तपन्तौ तौ तत्र ह्यद्यापि किल भारत ।
भ्रातरौ संयतात्मानौ ध्यायतः परमं पदम्

172.37

तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
पितरस्तस्य तृप्यन्ति पिण्डदानाद्दशाब्दिकम्

172.38

देवगृहे तु पक्षादौ यः करोति विलेपनम् ।
गोदानशतसाहस्रे दत्ते भवति यत्फलम्

172.39

उपलेपनेन द्विगुणमर्चने तु चतुर्गुणम् ।
दीपप्रज्वलने पुण्यमष्टधा परिकीर्तितम्

172.40

दिव्यनेत्रधरो भूत्वा त्रैलोक्ये सचराचरे ।
दध्ना मधुघृतैर्देवं पयसा नर्मदोदकैः

172.41

स्नपनं ये प्रकुर्वन्ति पुष्पमालाविलेपनैः ।
ये ऽर्चयन्ति विरूपाक्षं देवं नारायणं हरिम्

172.42

ते ऽपि दिव्यविमानेन क्रीडन्ते कल्पसंख्यया ।
दीपाष्टकं तु यः कुर्याद् अष्टमीं च चतुर्दशीम्

172.43

एकादश्यां तु कृष्णस्य न पश्यन्ति यमं तु ते ।
फलैर्नानाविधैः शुभ्रैर् यः कुर्याल् लिङ्गपूरणम्

172.44

ते ऽपि यान्ति विमानेन सिद्धचारणसेविताः ।
घण्टा चैव पताका च विमाने पुष्पमालिका

172.45

वादित्राणि यथार्हाणि प्रान्ते च गच्छते शिवम् ।
देवालयं तु यः कुर्याद् वैष्णवं माण्डवेश्वरम्

172.46

स्वर्गे वसति धर्मात्मा यावदाभूतसम्प्लवम् ।
माण्डव्यनारायणाख्ये विप्रान् भोजयते ऽग्रतः

172.47

एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता ।
आश्विने मासि सम्प्राप्ते शुक्लपक्षे चतुर्दशीम्

172.48

कृतोपवासनियमो रात्रौ जागरणेन च ।
दीपमालां चतुर्दिक्षु पूजां कृत्वा तु शक्तितः

172.49

नारी वा पुरुषो वापि नृत्यगीतप्रवादनैः ।
प्रभाते विमले सूर्ये स्नानादिकविधिं नृप

172.50

अभिनिर्वर्त्य मौनेन पश्यते देवमीदृशम् ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते

172.51

अथवा मार्गशीर्षे च चैत्रवैशाखयोरपि ।
श्रावणे वा महाराज सर्वकाले ऽथवापि च

172.52

शिवरात्रिसमं पुण्यम् इत्येवं शिवभाषितम् ।
वाजपेयाश्वमेधाभ्यां फलं भवति नान्यथा

172.53

दुर्भगा दुःखिता वन्ध्या दरिद्रा च मृतप्रजा ।
स्नाति रुद्रघटैर्या स्त्री सर्वान्कामानवाप्नुयात्

172.54

कृमिकीटपतङ्गाश्च तस्मिंस्तीर्थे तु ये मृताः ।
स्वर्गं प्रयान्ति ते सर्वे दिव्यरूपधरा नृप

172.55

अनाशके जले ऽग्नौ तु ये मृता व्याधिपीडिताः ।
अनिवर्तिका गतिस् तेषां रुद्रलोके ह्यसंशयम्

172.56

नित्यं नमति यो राज शिवनारायणावुभौ ।
गोदानफलमाप्नोति तस्य तीर्थप्रभावतः

172.57

देवालये तु राजेन्द्र यश्च कुर्यात् प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन ससागरधरा धरा

172.58

सार्द्धं शतं च तीर्थानि मल्लिकाभवनाद् बहिः ।
तस्य तीर्थप्रमाणं तु विस्तरं राजसत्तम

172.59

सूत्रेण वेष्टयेत् क्षेत्रमथवा शिवमन्दिरम् ।
अथवा शिवलिङ्गं च तस्य पुण्यफलं शृणु

172.60

जम्बूद्वीपश्च कृतस्नश्च शाल्मली कुशक्रौञ्चकौ ।
शाकपुष्करगोमेदैः सप्तद्वीपा वसुंधरा

172.61

भूषिता तेन राजेन्द्र सशैलवनकानना ।
रेवायां दक्षिणे भागे शिवक्षेत्रात्समीपतः

172.62

देवखातं महापुण्यं निर्मितं त्रिदशैरपि ।
तस्मिन् यः कुरुते स्नानं मुच्यते सर्वपातकैः

172.63

पूर्णिमायाममावस्यां व्यतीपाते ऽर्कसंक्रमे ।
श्राद्धं च संग्रहे कुर्यात्स गच्छेत् परमां गतिम्

172.64

देवखाते त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
तिष्ठन्ति ऋषिभिः सार्द्धं पितृदेवगणैः सह

172.65

तत्र तीर्थे ऽश्विने मासि चतुर्दश्यां विशेषतः ।
वायुमार्गे स्थितः शक्रस्तिष्ठते दैवतैः सह

172.66

पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ।
विंशति तानि सर्वाणि देवखाते दिनद्वयम्

172.67

गयाशिरे च यत्पुण्यं प्रयागे मकरकण्टके ।
प्रयागे सोमतीर्थे च तत्पुण्यं माण्डवेश्वरे

172.68

पट्टबन्धेन यत्पुण्यं मात्रायां लकुलेश्वरे ।
आश्विन्यामश्विनीयोगे तत्पुण्यं माण्डवेश्वरे

172.69

उज्जयिन्यां महाकाले वाराणस्यां त्रिपुष्करे ।
संनिहत्यां रविग्रस्ते माण्डव्याख्ये सनातनम्

172.70

इति ज्ञात्वा महाराज सर्वतीर्थेषु चोत्तमम् ।
पित्ःन्देवान् समभ्यर्च्य स्नानदानादिपूजनैः

172.71

चतुर्दश्यां निराहारः स्थितो भूत्वा शुचिव्रतः ।
पूजयेत् परया भक्त्या रात्रौ जागरणे शिवम्

172.72

स्नानैश्च विविधैर्देवं पुष्पागरुविलेपनैः ।
प्रभाते पौर्णमास्यां तु स्नानादिविधितर्पणैः

172.73

श्राद्धेन हव्यकव्येन शिवपूजार्चनेन च ।
अग्निष्टोमादियज्ञैश्च विधिवच्चाप्तदक्षिणैः

172.74

धौतपापो विशुद्धात्मा फलते फलमुत्तमम् ।
गोसहस्रप्रदानेन दत्तं भवति भारत

172.75

स्नानाद्यैर् विधिवत् तत्र तद्दिने शिवसन्निधौ ।
हिरण्यं वृषभं धेनुं भूमिं गोमिथुनं हयम्

172.76

शिवमुद्दिश्य वै वस्त्रयुग्मे दद्यात् सुरूपिणे ।
पादुकोपानहौ छत्रं भाजनं रक्तवाससी

172.77

होमं जाप्यं तथा दानमक्षयं सर्वमेव तत् ।
ऋचमेकां तु ऋग्वेदे यजुर्वेदे यजुस्तथा

172.78

सामैकं सामवेदे तु जपेद् देवाग्रसंस्थितः ।
सम्यग्वेदफलं तस्य भवेद्वै नात्र संशयः

172.79

गायत्रीजाप्यमात्रस् तु वेदत्रयफलं लभेत् ।
कुलकोटिशतं साग्रं लभते तु शिवार्चनात्

172.80

स्नाने दाने तथा श्राद्धे जागरे गीतवादिते ।
अनिवर्तिका गतिस्तस्य शिवलोकात्कदाचन

172.81

कालेन महताविष्टो मर्त्यलोके समाविशेत् ।
राजा भवति मेधावी सर्वव्याधिविवर्जितः

172.82

जीवेद्वर्षशतं साग्रं पुत्रपौत्रधनान्वितः ।
तच्च तीर्थं पुनः स्मृत्वा लीयमानो महेश्वरे

172.83

उपास्ते यस्तु वै सन्ध्यां तस्मिंस्तीर्थे च पर्वणि ।
साङ्गोपाङ्गैश् चतुर्वेदैर् लभते फलमुत्तमम्

172.84

तत्र सर्वं शिवक्षेत्राच्छरपातं समन्ततः ।
न संचरेद् भयोद्विग्ना ब्रह्महत्या नराधिप

172.85

यत्र तत्र स्थितो वृक्षान् पश्यते तीर्थतत्परः ।
विविधैः पातकैर् मुक्तो मुच्यते नात्र संशयः

172.86

श्वभ्री तत्र महाराज जलमध्ये प्रदृश्यते ।
कथानिका पुराणोक्ता वानरी तीर्थसेवनात्

172.87

तत्र कूपो महाराज तिष्ठते देवनिर्मितः ।
शिवस्य पश्चिमे भागे शिवक्षेत्रमनुत्तमम्

172.88

वृषोत्सर्गं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
क्रीडन्ति पितरस्तस्य स्वर्गलोके यदृच्छया

172.89

अगम्यागमने पापम् अयाज्ययाजने कृते ।
स्तेयाच्च ब्रह्मगोहत्यागुरुघाताच्च पातकम् ।
तत्सर्वं नश्यते पापं वृषोत्सर्गे कृते तु वै

172.90

माण्डव्यतीर्थमाहात्म्यं यः शृणोति समाधिना ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc