रेवाखाण्ड (संशोधित पाठ) · अध्याय 16
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सृष्टिसंहरणसंरम्भवर्णनं नाम पञ्चदशो ऽध्यायः ॥
र्क्व् अध्याय 16
श्रीमार्कण्डेय उवाच:
समातृभिर्भूतगणश्च घोरैर्वृतः समन्तात्स ननर्त शूली ।
गजेन्द्रचर्मावरणे वसानः संहर्तुकामश्च जगत्समस्तम्
महेश्वरः सर्वसुरेश्वराणां मन्त्रैर् अनेकेखबद्धमाली ।
मेदोवसारक्तविचर्चिताङ्गस्त्रैलोक्यदाहे प्रणनर्त शम्भुः
स कालरात्र्या सहितो महात्मा काले त्रिलोकीं सकलां जहार ।
संवर्तकाख्यः सहभानुभावः शम्भुर्महात्मा जगतो वरिष्ठः
स विस्फुलिङ्गोत्करधूममिश्रं महोल्कवज्राशनिवाततुल्यम् ।
ततो ऽट्टहासं प्रमुमोच घोरं विवृत्य वक्त्रं वडवामुखाभम्
सहस्रवज्राशनिसंनिभेन तेनाट्टहासेन हरोद्गतेन ।
आपूरितास्तत्र दिशो दशैव संक्षोभिताः सर्वमहार्णवाश्च
स ब्रह्मलोकं प्रजगाम शब्दो ब्रह्माण्डभाण्डं प्रचचाल सर्वम् ।
किमेतदित्याकुलचेतनास्ते वित्रस्तरूपा ऋषयो बभूवुः
प्रणम्य सर्वे सहसैव भीता ब्रह्माणमूचुः परमेश्वरेशम् ।
भीताश्च सर्वे ऋषयस्ततस्ते सुरासुरैश्चैव महोरगैश्च
विद्युत्प्रभाभासुरभीषणाङ्गः क एष चिक्रीडति भूतलस्थः ।
कालानलं गात्रमिदं दधानो यस्याट्टहासेन जगद्विमूढम्
वित्रस्तरूपं प्रबभौ क्षणेन संहर्तुमिच्छेत्किमयं त्रिलोकीम् ।
सार्धं त्वया सप्तभिरर्णकैश्च जनस्तपः सत्यमभिप्रयाति
संहर्तुकामो हि क एष देव एतत्समस्तं कथयाप्रमेय ।
न दृष्टमेतद् विषमं कदापि जानासि तत्त्वं परमो मतो नः
निशम्य तद्वाक्यमथाबभाषे ब्रह्मा समाश्वास्य सुरादिसङ्घान्
श्रीब्रह्मोवाच:
स एष कालस्त्रिदिवं त्वशेषं संहर्तुकामो जगदक्षयात्मा ।
पूर्णे च शेते परिवत्सराणां भविष्यतीशानविभुर्न चित्रम्
संवत्सरो ऽयं परिवत्सरश्च उद्वत्सरो वत्सर एष देवः ।
दृष्टो ऽप्यदृष्टः प्रहुतः प्रकाशी स्थूलश्च सूक्ष्मः परमाणुरेषः
नातः परं किंचिदिहास्ति लोके परापरो ऽयं प्रभुरात्मवादी ।
तुष्येत मे कालसमानरूप इत्येवमुक्त्वा भगवान्सुरेशः
सनत्कुमारप्रमुखैः समेतः संतोषयामास ततो यतात्मा
ब्रह्मोवाच:
नमो ऽस्तु सर्वाय सुशान्तमूर्ताये ह्यघोररूपाय नमोनमस्ते ।
सर्वात्मने सर्व नमोनमस्ते महात्मने भूतपते नमस्ते
ओङ्कार हुङ्कारपरिष्कृताय स्वधावषट्कार नमोनमस्ते ।
गुणत्रयेशाय महेश्वराय ते त्रयीमयाय त्रिगुणात्मने नमः
त्वं शङ्करत्वं हि महेश्वरो ऽसि प्रधानमग्र्यं त्वमसि प्रविष्टः ।
त्वं विष्णुरीशः प्रपितामहश्च त्वं सप्तजिह्वस्त्वमनन्तजिह्वः
स्रष्टासि सृष्टिश्च विभो त्वमेव विश्वस्य वेद्यं च परं निधानम् ।
आहुर्द्विजा वेदविदो वरेण्यं परात्परस्त्वं परतः परो ऽसि
सूक्ष्मातिसूक्ष्मं प्रवदन्ति यच्च वाचो निवर्तन्ति मनो यतश्च
श्रीमहादेव उवाच:
त्वया स्तुतोऽहं विविधैश्च मन्त्रैः पुष्णामि शान्तिं तव पद्मयोने ।
ईक्षस्व मां लोकमिमं ज्वलन्तं वक्त्रैरनेकैः प्रसभं हरन्तम्
एवमुक्त्वा स देवेशो देव्या सह जगत्पतिः ।
पितामहं समाश्वास्य तत्रैवान्तरधीयत
इदं महत्पुण्यतमं वरिष्ठं स्तोत्रं निशम्येह गतिं लभन्ते ।
पापैरनेकैः परिवेष्टिता ये प्रयान्ति रुद्रं विमलैर्विमानैः
भयं च तेषां न भवेत्कदाचित्पठन्ति ये तात इदं द्विजाग्र्याः ।
सङ्ग्रामचौराग्निवने तथाब्धौ तेषां शिवस्त्राति न संशयो ऽत्र
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0