रेवाखाण्ड (संशोधित पाठ) · अध्याय 166
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 166
मार्कण्डेय उवाच:
ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी ।
आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम्
तत्र तीर्थे नरः स्नात्वा पूजयेत् पितृदेवताः ।
देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः
मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा ।
पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम्
तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः ।
अष्टम्यां वा चतुर्दश्यां सर्वकाले ऽथवा नृप
सङ्गमे तु ततः स्नाता नारी वा पुरुषो ऽपि वा ।
पुत्रं धनं तथा देवी ददाति परितोषिता
गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता ।
प्रजां च पाति सततं पूज्यमाना न संशयः
नवम्यां च महाराज स्नात्वा देवीमुपोषितः ।
पूजयेत् परया भक्त्या श्रद्धापूतेन चेतसा
स गच्छेत् परमं लोकं यः सुरैरपि दुर्लभः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0