भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 159

159.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सङ्गमेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 159
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज तीर्थं परमपावनम् ।
नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम्

159.2

तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत ।
न पश्यति महाघोरं नरकद्वारसंज्ञिकम्

159.3

युधिष्ठिर उवाच:
शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह ।
जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम

159.4

यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति ।
तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः

159.5

त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह ।
विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम्

159.6

एवमुक्तः स मार्कण्डः कथयामास योगवित् ।
ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम्

159.7

मार्कण्डेय उवाच:
शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् ।
सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे

159.8

गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः

159.9

अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा ।
यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम्

159.10

गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते ।
तत्ते ऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप

159.11

सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् ।
विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः

159.12

गद्गदो ऽनृतवादी स्यान्मूकश्चैव गवानृते ।
ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः

159.13

कुनखी स्वर्णहरणाद् दुःश्चर्मा गुरुतल्पगः ।
संयोगी हीनयोनिः स्याद् दरिद्रो ऽदत्तदानतः

159.14

ग्रामशूकरतां याति ह्ययाज्ययाजको नृप ।
खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात्

159.15

अपरीक्षितभोजी स्याद्वानरो विजने वने ।
वितर्जको ऽथ मार्जारः खद्योतः कक्षदाहतः

159.16

अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः ।
अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत्

159.17

मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् ।
फलान्याहरतो ऽपत्यं म्रियते नात्र संशयः

159.18

मृतो वानरतां याति तन्मुक्तो ऽथ गलाडवान् ।
अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः

159.19

हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।
प्रव्राजी गमनाद् राजन् भवेन् मरुपिशाचकः

159.20

वातको जलहर्ता च धान्यहर्ता च मूषकः ।
अप्राप्तयौवनां गच्छन् भवेत् सर्प इति श्रुतिः

159.21

गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् ।
जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः

159.22

अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः ।
अयोनिगो वृको हि स्याद् उलूकः क्रयवञ्चनात्

159.23

मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते ।
प्रतिश्रुत्य द्विजायार्थम् अददन् मधुको भवेत्

159.24

राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः ।
परिवादी द्विजातीनां लभते काच्छपीं तनुम्

159.25

व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् ।
दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः

159.26

मार्जारो ऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।
सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत्

159.27

ग्रामभट्टो दिवाकीर्तिर् दैवज्ञो गर्दभो भवेत् ।
कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च

159.28

स एव दृश्यते राजन्प्रकाशात् परमर्मणाम् ।
यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु

159.29

कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः ।
एवमादीनि चान्यानि चिह्नानि नृपसत्तम

159.30

स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः ।
ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत

159.31

जायते नात्र सन्देहः समीभूते शुभाशुभे ।
स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते

159.32

पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः ।
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः

159.33

धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च ।
प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ

159.34

तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ।
प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः

159.35

मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः ।
आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् ।
वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च

159.36

पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् ।
सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम्

159.37

भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः

159.38

दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः

159.39

स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः

159.40

मनसा चेतनायुक्तो नखरोमशतावृतः ।
सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवान् अपि

159.41

पुनर्गर्भं पुनर् धात्रीम् एनस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते

159.42

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः

159.43

शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः ।
अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम्

159.44

सप्त शिरःकपालानि विहितानि स्वयम्भुवा ।
तिस्रः कोट्यो ऽर्धकोटी च रोम्णामङ्गेषु भारत

159.45

द्वासप्ततिसहस्राणि हृदयाद् अभिनिसृताः ।
हितानाम हि ता नाड्यस् तासां मध्ये शशिप्रभा

159.46

एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे ।
उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम्

159.47

गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः ।
जायते सर्ववर्णानां स्वधर्मचलनान् नृप

159.48

देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः ।
दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम्

159.49

स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे ।
निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते

159.50

उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् ।
एवमेतन्महातीर्थं नरकेश्वरमुत्तमम्

159.51

नरकापहं महापुण्यं महापातकनाशनम् ।
तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम्

159.52

तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् ।
महापातकयुक्तो ऽपि नरकं नैव पश्यति

159.53

तत्र तीर्थे तु यो दद्याद् धेनुं वैतरणीं शुभाम् ।
स मुच्यते सुखेनैव वैतरण्यां न संशयः

159.54

युधिष्ठिर उवाच:
यमद्वारे महाघोरे या सा वैतरणी नदी ।
किंरूपा किंप्रमाणा सा कथं सा वहति द्विज

159.55

कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् ।
केषां तु सानुकूला सा ह्येतद्विस्तरतो वद

159.56

श्रीमार्कण्डेय उवाच:
धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् ।
या सा वैतरणी नाम यमद्वारे महासरित्

159.57

अगाधा पाररहिता दृष्टमात्रा भयावहा ।
पूयशोणिततोया सा मांसकर्दमनिर्मिता

159.58

तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा ।
कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः

159.59

शिशुमारैश्च मकरैर् वज्रकर्तरिसंयुतैः ।
अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः

159.60

तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः ।
पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम्

159.61

हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः ।
असिपत्त्रवने घोरे पतन्तं यो ऽभिरक्षति

159.62

प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ।
चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी

159.63

तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते ।
मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च

159.64

अवजानन्ति मूढा ये तेषां वासस्तु संततम् ।
पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम्

159.65

परित्यजन्ति ये पापाः संततं तु वसन्ति ते ।
विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम्

159.66

स्त्रीबालवृद्धदीनानां छिद्रम् अन्वेषयन्ति ये ।
पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः

159.67

श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः ।
कृमिभिर् भक्ष्यते तत्र यावत्कल्पशतत्रयम्

159.68

ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति ।
आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम्

159.69

अग्निदो गरदश्चैव राजगामी च पैशुनी ।
कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः

159.70

वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः ।
सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः

159.71

ब्राह्मणो रसविक्रेता वृषलीपतिरेव च ।
गोकुलस्य तृषार्तस्य पालीभेदं करोति यः

159.72

कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः ।
शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी

159.73

एते वसन्ति सततं मा विचारं कृथा नृप ।
सानुकूला भवेद्येन तच् छृणुष्व नराधिप

159.74

अयने विषुवे चैव व्यतीपाते दिनक्षये ।
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम्

159.75

कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ।
स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम्

159.76

कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ।
कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने

159.77

यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।
इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः

159.78

उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।
कृत्वा प्रकल्पयेद् विद्वाञ् छत्त्रोपानद्युगान्विताम्

159.79

अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।
इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम्

159.80

ओं यमद्वारे महाघोरे या सा वैतरणी नदी ।
तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः ।
इत्यधिवासनमन्त्रः

159.81

गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्

159.82

ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः ।
इति दानमन्त्रः

159.83

ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् ।
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत्

159.84

पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः

159.85

धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।
उत्तितीर्षुरहं धेनो वैतरण्यै नमो ऽस्तु ते ।
इत्यनुव्रजमन्त्रः

159.86

अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् ।
एवं कृते महीपाल सरित्स्यात्सुखवाहिनी

159.87

तारयते तया धेन्वा सा सरिज्जलवाहिनी ।
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः

159.88

रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः ।
स्वस्थे सहस्रगुणितमातुरे शतसंमितम्

159.89

मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।
स्वहस्तेन ततो देयं मृते कः कस्य दास्यति ।
इति मत्वा महाराज स्वदत्तं स्यान्महाफलम्

159.90

इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् ।
शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम्

159.91

श्रीमार्कण्डेय उवाच:
प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी ।
स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम्

159.92

पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः ।
पश्चाज्जागरणं कुर्यात् सत्कथाश्रवणादिभिः

159.93

ततः प्रभातसमये स्नात्वा वै नर्मदाजले ।
तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम्

159.94

सौवर्णे घृतसंयुक्तं दीपं दद्याद् द्विजातये ।
पश्चात् संभोजयेद् विप्रान् स्वयं चैव विमत्सरः

159.95

एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् ।
अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः

159.96

अनेन विधिना कृत्वा न पश्येन्नरकान्नरः ।
तत्र तीर्थे मृतानां तु नराणां विधिना नृप

159.97

मन्वन्तरं शिवे लोके वासो भवति दुर्लभे ।
विमानेनार्कवर्णेन किंकिणीशतशोभिना

159.98

स गच्छति महाभाग सेव्यमानो ऽप्सरोगणैः ।
भुनक्ति विविधान्भोगानुक्तकालं न संशयः

159.99

पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम्

159.100

प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् ।
अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् ।
महापातकयुक्तो ऽपि मुच्यते नात्र संशयः

159.101

अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर ।
विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते

159.102

तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् ।
लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc