भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 155

155.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 155
श्रीमार्कण्डेय उवाच:
अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् ।
उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर

155.2

तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् ।
पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम्

155.3

युधिष्ठिर उवाच:
तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ।
भ्रातृभिः सहितः सर्वैस् तथान्यैर् द्विजसत्तमैः

155.4

श्रीमार्कण्डेय उवाच:
शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर ।
यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते

155.5

नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति

155.6

मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप ।
शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया

155.7

समागमे मुनीनां तु देवानां हि तथैव च ।
कथितं देवदेवेन शितिकण्ठेन भारत ।
कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम्

155.8

पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् ।
तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः

155.9

ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः ।
प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप

155.10

क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् ।
तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः

155.11

गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा

155.12

सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् ।
निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम्

155.13

स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर

155.14

सरितां च यथा गङ्गा देवतानां जनार्दनः ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम्

155.15

चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा ।
प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप

155.16

ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी ।
शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते

155.17

तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् ।
दुर्विज्ञेयो यथा लोके परमात्मा सनातनः

155.18

सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप ।
मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः

155.19

शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् ।
बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः

155.20

शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् ।
यो ऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम्

155.21

कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः

155.22

एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः ।
चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः

155.23

युधिष्ठिर उवाच:
को ऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः ।
शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन

155.24

केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले ।
तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे

155.25

श्रीमार्कण्डेय उवाच:
इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च ।
चाणक्यो नाम राजर्षिर् बुभुजे पृथिवीमिमाम्

155.26

विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः ।
वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः

155.27

युधिष्ठिर उवाच:
कथं स वञ्चितो राजा वायसाभ्यां कुतो ऽथवा ।
पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना

155.28

न जीवे वञ्चितो ऽन्येन प्राणांस्त्यक्ष्ये न संशयः ।
एतन्मे वद विप्रेन्द्र परं कौतूहलं मम

155.29

श्रीमार्कण्डेय उवाच:
आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ ।
प्रेषयामास तीव्रेण दण्डेन यमसादनम्

155.30

वायसावूचतुः ।
सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ ।
मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे

155.31

तावावां कृतसंकल्पौ त्वया कोपेन मानद ।
निरस्तावनिरस्तौ वा यास्यावः परमां गतिम्

155.32

तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् ।
मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा

155.33

तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः ।
नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित्

155.34

तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ ।
प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः

155.35

तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ ।
शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति

155.36

राजोवाच:
तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः ।
यदि पृच्छति धर्मात्मा यमः संयमनो महान्

155.37

कुतो वामागतं ब्रूतं केन वा भूषितावुभौ ।
मदीया भारती तस्य कथनीया ह्यशङ्कितम्

155.38

इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिना

155.39

तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् ।
क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ ।
धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ

155.40

यम उवाच:
कुतः स्थानात्समायातौ केन वा भूषितावुभौ ।
वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया

155.41

काकावूचतुः ।
इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः

155.42

तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः ।
चित्रगुप्तं कलिं कालं वीक्ष्यताम् इदम् अब्रवीत्

155.43

अण्डजस्वेदजातीनां भूतानां सचराचरे ।
विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम

155.44

गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह ।
अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः

155.45

ततस् तैर् धर्मपालैस् तु धर्मराजप्रचोदितैः ।
निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः

155.46

ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः ।
शृण्वतां धर्मपालानां मेघगम्भीरया गिरा

155.47

शुक्लतीर्थे मृतानां तु नर्मदाविमले जले ।
अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ

155.48

तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः ।
निर्मितं परया भक्त्या लोकानां हितकाम्यया

155.49

पापोपपातकैर्युक्ता ये नरा नर्मदाजले ।
शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित्

155.50

एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् ।
आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत्

155.51

पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् ।
कथयामासतुः पार्थ दानवौ काकतां गतौ

155.52

अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् ।
पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम्

155.53

तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् ।
अनेकगृहसम्बाधं मणिकाञ्चनभूषितम्

155.54

चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् ।
उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम्

155.55

हंससारससंघुष्टं कोकिलाकुलसंकुलम् ।
सिंहव्याघ्रगजाकीर्णम् ऋक्षवानरसेवितम्

155.56

नरनारीसमाकीर्णं नित्योत्सवविभूषितम् ।
शंखदुन्दुभिर्निर्घोषैर् वीणावेणुनिनादितम्

155.57

यममार्गे ऽपि विहितं स्वर्गलोकमिवापरम् ।
गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया

155.58

विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः ।
प्राणस्य भीत्या दृष्टो ऽसौ सिंहासनगतः प्रभुः

155.59

महाकायो महाजङ्घो महास्कन्धो महोदरः ।
महावक्षा महाबाहुर् महावक्त्रेक्षणो महान्

155.60

महामहिषमारूढो महामुकुटभूषितः ।
तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः

155.61

समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ ।
पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ

155.62

विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् ।
ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना

155.63

पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् ।
उज्जयिन्यां महीपालश्चाणक्यो ऽभूत् प्रतापवान्

155.64

द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् ।
ततो ऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः

155.65

उवाच वचनं सत्यं सभामध्ये हसन्निव ।
अस्ति तत्कारणं येन चाणक्यः पापपूरुषः

155.66

नायातो मम लोके तु सर्वपापभयंकरे ।
शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम्

155.67

जायते सर्वजन्तूनां नात्र काचिद्विचारणा ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले

155.68

मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् ।
तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः

155.69

पश्यन्तौ विविधां घोरां नरके लोकयातनाम् ।
त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम

155.70

दृष्टा भीतौ परामार्तिगतौ तत्र महापथि ।
नरको रौरवस्तत्र महारौरव एव च

155.71

पेषणः शोषणश्चैव कालसूत्रो ऽस्थिभञ्जनः ।
तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा

155.72

दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः ।
नरकौ दंशमशकौ तथा यमलपर्वतौ

155.73

नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी ।
शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम्

155.74

तदेव नीरं पापानां शोणितं परिवर्तते ।
असिपत्रवनं चान्यद्दृष्टान्या महती शिला

155.75

अग्निपुंजनिभाकारा विशाला शाल्मली परा ।
इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः

155.76

घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः ।
वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः

155.77

अहंकारकृतैर् दोषैर् मायावचनपूर्वकैः ।
पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः

155.78

भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे ।
तत्र ते द्वादशाब्दानि क्षपित्वा रौरवे ऽधमाः

155.79

इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते ।
देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम्

155.80

महारौरवमाश्रित्य ध्रुवं वासो यमालये ।
ततः कालेन महता पापाः पापेन वेष्टिताः

155.81

जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः ।
मृगपक्षिविहङ्गानां घातका मांसभक्षकाः

155.82

पेषणं नरकं यान्ति शोषणं जीवबन्धनात् ।
तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम्

155.83

इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः ।
गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह

155.84

पतनं जायते पुंसां नरके कालसूत्रके ।
तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः

155.85

भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् ।
बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम्

155.86

पतन्ति नात्र सन्देहो नरके ते ऽस्थिभञ्जने ।
तत्र वर्षशतस्यान्त इह मानुष्यतां गताः

155.87

कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः ।
ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः

155.88

ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः ।
तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः

155.89

दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते ।
मानकूटं तुलाकूटं कूटकं तु वदन्ति ये

155.90

नरके ते ऽन्धतामिस्रे प्रपच्यन्ते नराधमाः ।
शतसाहस्रिकं कालमुषित्वा तत्र ते नराः

155.91

इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः ।
पितृदेवद्विजेभ्यो ऽन्नमदत्त्वा ये ऽत्र भुञ्जते

155.92

नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः ।
ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः

155.93

जायते ऽशुचिगन्धो ऽत्र परभाग्योपजीवकः ।
स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः

155.94

नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः ।
पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम्

155.95

उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः ।
अग्निदो गरदश्चैव लोभमोहान्वितो नरः

155.96

नरके विषसम्पूर्णे निमज्जति दुरात्मवान् ।
तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः

155.97

भुवि मानुषतां प्राप्य कृपणो जायते पुनः ।
पादुकोपानहौ छत्रं शय्यां प्रावरणानि च

155.98

अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् ।
पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः

155.99

पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ ।
या सा वैतरणी घोरा नदी रक्तप्रवाहिनी

155.100

पिबन्ति रुधिरं तत्र ये ऽभियान्ति रजस्वलाम् ।
असिपत्रवने घोरे पीड्यन्ते पापकारिणः

155.101

परपीडाकरा नित्यं ये नरो ऽन्त्यजगामिनः ।
गुरुदाररतानां तु महापातकिनामपि

155.102

शिलावगूहनं तेषां जायते जन्मसप्ततिम् ।
ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम्

155.103

शाल्मलीं ते ऽवगूहन्ति परदाररता हि ये ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च

155.104

अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः ।
देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः

155.105

स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।
एवमादीनि पापानि भुञ्जन्ते यमशासनात्

155.106

येषां तु दर्शनादेव श्रवणाज्जायते भयम् ।
तथा दानफलं चान्ये भुञ्जाना यममन्दिरे

155.107

दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया ।
रथैरन्ये गजैरन्ये केचिद्वाजिभिर् आवृताः

155.108

दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः ।
गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः

155.109

शय्याशनगृहादीनां स लोकः कामदो नृणाम् ।
अन्नं पानीयसहितं ददते ये ऽत्र मानवाः

155.110

तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने ।
अत्र यद्दीयते दानमपि वालाग्रमात्रकम्

155.111

तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम ।
एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम्

155.112

कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् ।
तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः

155.113

विसर्जयामास खगावभिनन्द्य पुनःपुनः ।
ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत

155.114

कामक्रोधौ परित्यज्य जगामामरपर्वतम् ।
तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम्

155.115

प्लवमानो ऽशु ध्यायन्देवं जनार्दनम् ।
आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः

155.116

प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् ।
नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम्

155.117

शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः ।
आप्लुत्य विमले तोये गतो ऽसौ वैष्णवं पदम्

155.118

गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् ।
प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे

155.119

एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः ।
तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc