रेवाखाण्ड (संशोधित पाठ) · अध्याय 154
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 154
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् ।
विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम्
अन्धकं समरे हत्वा देवदेवो महेश्वरः ।
सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः
शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः ।
वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः
गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति ।
स्तोत्रैर् अनेकैर् अपरे गृणन्ति महेश्वरं तत्र महानुभावाः
प्रमथानां निनादेन कल्कलेन च बन्दिनाम् ।
यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया
तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् ।
वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि
तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् ।
आरूढः परमं यानं गीयमानो ऽप्सरोगणैः
उपभुज्य महाभोगान्कालेन महता ततः ।
मर्त्यलोके महात्मासौ जायते विमले कुले
ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0