भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 153

153.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भार्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 153
मार्कण्डेय उवाच:
तस्यैवानन्तरं चान्यद्रवितीर्थमनुत्तमम् ।
यस्य संदर्शनादेव मुच्यन्ते पातकैर्नराः

153.2

रवितीर्थे तु यः स्नात्वा नरः पश्यति भास्करम् ।
तस्य यत्फलमुद्दिष्टं स्वयं देवेन तच्छृणु

153.3

नान्धो न मूको बधिरः कुले भवति कश्चन ।
कुरूपः कुनखी वापि तस्य जन्मानि षोडश

153.4

दद्रुचित्रककुष्ठानि मण्डलानि विचर्चिका ।
नश्यन्ति देवभक्तस्य षण्मासान्नात्र संशयः

153.5

चरितं तस्य देवस्य पुराणे यच्छ्रुतं मया ।
न तत्कथयितुं शक्यं संक्षेपेण नृपोत्तम

153.6

तत्र तीर्थे तु यद्दानं रविमुद्दिश्य दीयते ।
विधिना पात्रविप्राय तस्यान्तो नास्ति कर्हिचित्

153.7

अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
रवितीर्थे प्रदत्तानां दानानां फलमुत्तमम्

153.8

संक्रान्तौ यानि दानानि हव्यकव्यानि भारत ।
अपामिव समुद्रस्य तेषामन्तो न लभ्यते

153.9

येन येन यदा दत्तं येन येन यदा हुतम् ।
तस्य तस्य तदा काले सविता प्रतिदायकः

153.10

सप्त जन्मानि तान्येव ददात्यर्कः पुनः पुनः ।
शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये

153.11

संक्रान्तौ शतसाहस्रं व्यतीपाते त्वनन्तकम्

153.12

युधिष्ठिर उवाच:
रवितीर्थं कथं तात पुण्यात्पुण्यतरं स्मृतम् ।
विस्तरेण ममाख्याहि श्रवणौ मम लम्पटौ

153.13

श्रीमार्कण्डेय उवाच:
शृणुष्वावहितो भूत्वा ह्यादित्येश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वव्याधिविनाशनम्

153.14

पुरा कृतयुगस्यादौ जाबालिर्ब्राह्मणो ऽभवत् ।
वसिष्ठान्वयसम्भूतो वेदशास्त्रार्थपारगः

153.15

पतिव्रता साधुशीला तस्य भार्या मनस्विनी ।
ऋतुकाले तु सा गत्वा भर्तारम् इदम् अब्रवीत्

153.16

वर्तते ऋतुकालो मे भर्तारं त्वामुपस्थिता ।
भज मां प्रीतिसंयुक्तः पुत्रकामां तु कामिनीम्

153.17

एवमुक्तो द्विजः प्राह प्रिये ऽद्याहं व्रतान्वितः ।
गच्छेदानीं वरारोहे दास्य ऋत्वन्तरे पुनः

153.18

पुनर्द्वितीये सम्प्राप्ते ऋतुकाले ऽप्युपस्थिता ।
पुनः सा छन्दिता तेन व्रतस्थो ऽद्येति भारत

153.19

इत्थं वा बहुशस्तेन छन्दिता च पुनः पुनः ।
निराशा चाभवत्तत्र भर्तारं प्रति भामिनी

153.20

दुःखेन महताविष्टा विधायानशनं मृता ।
तेन भ्रूणहतेनैव पापेन सहसा द्विजः

153.21

शीर्णघ्राणाङ्घ्रिरभवत्तपः सर्वं ननाश च ।
दृष्ट्वात्मानं स कुष्ठेन व्याप्तं ब्राह्मणसत्तमः

153.22

विषादं परमं गत्वा नर्मदातटमाश्रितः ।
अपृच्छद्भास्करं तीर्थं द्विजेभ्यो द्विजसत्तमः

153.23

आरोग्यं भास्करादिच्छेदिति संचिन्त्य चेतसि ।
कुतस्तद्भास्करं तीर्थं भो द्विजाः कथ्यतां मम

153.24

तपस् तप्याम्यहं गत्वा तस्मिंस्तीर्थे सुभावितः

153.25

द्विजा ऊचुः ।
रेवाया उत्तरे कूले आदित्येश्वरनामतः ।
विद्यते भास्करं तीर्थं सर्वव्याधिविनाशनम्

153.26

तत्र याह्यविचारेण गन्तुं चेच्छक्यते त्वया ।
एवमुक्तो द्विजैर्विप्रो गन्तुं तत्र प्रचक्रमे

153.27

व्याधिना परिभूतस्तु घोरेण प्राणहारिणा ।
यदा गन्तुं न शक्नोति तदा तेन विचिन्तितम्

153.28

सामर्थ्यं ब्राह्मणानां हि विद्यते भुवनत्रये ।
लिङ्गपातः कृतो विप्रैर्देवदेवस्य शूलिनः

153.29

समुद्रः शोषितो विप्रैर्विन्ध्यश्चापि निवारितः ।
अहमप्यत्र संस्थस्तु ह्यानयिष्यामि भास्करम्

153.30

तपोबलेन महता ह्यादित्येश्वरसंज्ञितम् ।
इति निश्चित्य मनसा ह्युग्रे तपसि संस्थितः

153.31

वायुभक्षो निराहारो ग्रीष्मे पञ्चाग्निमध्यगः ।
शिशिरे तोयमध्यस्थो वर्षास्वप्रावृताकृतिः

153.32

साग्रे वर्षशते पूर्णे रविस्तुष्टो ऽब्रवीद् इदम्

153.33

सूर्य उवाच:
वरं वरय भद्रं ते किं ते मनसि वाञ्छितम् ।
अदेयमपि दास्यामि ब्रूहि मां त्वं चिरं कृथाः

153.34

किमसाध्यं हि ते विप्र इदानीं तपसि स्थितः

153.35

जाबालिरुवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
मम प्रतिज्ञा देवेश ह्यादित्येश्वरदर्शने

153.36

कृता तां पारितुं देव न शक्तो व्याधिना वृतः ।
शुक्लतीर्थे ऽत्र तिष्ठ त्वम् आदित्येश्वरमूर्तिधृक्

153.37

एवमुक्ते तु देवेशो बहुरूपो दिवाकरः ।
उत्तरे नर्मदाकूले क्षणादेव व्यदृश्यत

153.38

तदाप्रभृति भूपाल तद्धि तीर्थं प्रचक्षते ।
सर्वपापहरं प्रोक्तं सर्वदुःखविनाशनम्

153.39

यस्तु संवत्सरं पूर्णं नित्यम् आदित्यवासरे ।
स्नात्वा प्रदक्षिणाः सप्त दत्त्वा पश्यति भास्करम्

153.40

यत्फलं लभते तेन तच्छृणुष्व मयोदितम् ।
प्रसुप्तं मण्डलानीह दद्रुकुष्ठविचर्चिकाः

153.41

नश्यन्ति सत्वरं राजंस्तूलराशिरिवानले ।
धनपुत्रकलत्राणां पूरयेद्वत्सरत्रयात्

153.42

यस्तु श्राद्धप्रदस्तत्र पित्ःनुद्दिश्य संक्रमे ।
तृप्यन्ति पितरस्तस्य पितृदेवो हि भास्करः

153.43

इति ते कथितं सर्वमादित्येश्वरमुत्तमम् ।
सर्वपापहरं दिव्यं सर्वरोगविनाशनम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc