भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 152

152.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 152
श्रीमार्कण्डेय उवाच:
ततो गच्छेद् धरापाल भार्गलेश्वरम् उत्तमम् ।
शङ्करं जगतः प्राणं स्मृतमात्राघनाशनम्

152.2

तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः

152.3

तत्र तीर्थे तु यः कश्चित् प्राणत्यागं करिष्यति ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc