रेवाखाण्ड (संशोधित पाठ) · अध्याय 147
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 147
मार्कण्डेय उवाच:
ततो गच्छेन्महीपाल सिद्धेश्वरमनुत्तमम् ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम्
तत्र तीर्थे तु यः स्नात्वा पूजयेद् वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो गतिं यात्यश्वमेधिनाम्
तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्यात् प्रयत्नतः ।
पित्ःणां प्रीणनार्थाय सर्वं तेन कृतं भवेत्
तत्र तीर्थे मृतानां तु जन्तूनां नृपसत्तम ।
गर्भवासे मतिस्तेषां न जायेत कदाचन
गर्भवासो हि दुःखाय न सुखाय कदाचन ।
तत्तीर्थवारिणा स्नातुर् न पुनर्भवसम्भवः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0