भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 141

141.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 141
श्रीमार्कण्डेय उवाच:
ततो गच्छेन् महीपाल तापेश्वरमनुत्तमम् ।
यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर

141.2

जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा ।
व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च

141.3

विमुच्य सशरं चापं प्रारेभे तप उत्तमम् ।
दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः

141.4

अतीते तु ततः काले परितुष्टो महेश्वरः ।
वरं ब्रूहि महाव्याध यत्ते मनसि रोचते

141.5

व्याध उवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
तव पार्श्वे महादेव वासो मे प्रतिदीयताम्

141.6

ईश्वर उवाच:
एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः ।
दैवदेवो महादेव इत्युक्त्वान्तरधीयत ।
गते चादर्शनं देवे स्थापयित्वा महेश्वरम्

141.7

पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् ।
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम्

141.8

व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् ।
तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम्

141.9

शिवलोकमवाप्नोति मामुवाच महेश्वरः ।
ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः

141.10

तापत्रयविमुक्तास्ते नात्र कार्या विचारणा ।
अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः

141.11

स्नानं समाचरेन् नित्यं सर्वपातकशान्तये

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc