भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 131

131.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम त्रिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 131
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे कूले नागतीर्थमनुत्तमम् ।
यत्र सिद्धा महानागा भये जाते ततो नृप

131.2

युधिष्ठिर उवाच:
महाभयानां लोकस्य नागानां द्विजसत्तम ।
कथं जातं भयं तीव्रं येन ते तपसि स्थिताः

131.3

भूतं भव्यं भविष्यच्च यत्सुरासुरमानवे ।
तात ते विदितं सर्वं तेन मे कौतुकं महत्

131.4

मम संतापजं दुःखं दुर्योधनसमुद्भवम् ।
तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतम्

131.5

श्रुत्वा तव मुखोद्गीतां कथां पापप्रणाशनीम् ।
भूयो भूयः स्मृतिर्जाता श्रवणे मम सुव्रत

131.6

न क्लेशत्वं द्विजे युक्तं न चान्यो जानते फलम् ।
विद्यादानस्य महतः श्रावितस्य सुतस्य च

131.7

एवं ज्ञात्वा यथान्यायं यः प्रश्नः पृच्छितो मया ।
कथा तु कथ्यतां विप्र दयां कृत्वा ममोपरि

131.8

मार्कण्डेय उवाच:
यथा यथा त्वं नृप भाषसे च तथा तथा मे सुखमेति भारती ।
शैथिल्यभावाज्जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात

131.9

कथयामि यथावृत्तम् इतिहासं पुरातनम् ।
कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत

131.10

द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।
गरुत्मतो वै विनता सर्पाणां कद्रुरेव च

131.11

अश्वसंदर्शनात् ताभ्यां कलिरूपं व्यवस्थितम् ।
प्रभातकाले राजेन्द्र भास्कराकारवर्चसम्

131.12

तं दृष्ट्वा विनता रूपम् अश्वं सर्वत्र पाण्डुरम् ।
अथ तां कद्रूमवोचत्सा पश्य पश्य वरानने

131.13

उच्चैःश्रवसः सादृश्यं पश्य सर्वत्र पाण्डुरम् ।
धावमानम् अविश्रान्तं जवेन पवनोपमम्

131.14

तं दृष्ट्वा सहसा यान्तम् ईर्ष्याभावेन मोहिता ।
कृष्णं मत्वा तथाजल्पत्तया सह नृपोत्तम

131.15

विनते त्वं मृषा लोके नृशंसे कुलपांसनि ।
कृष्णं चैनं वद श्वेतं नरकं यास्यसे परम्

131.16

विनतोवाच:
सत्यानृते तु वचने पणो ऽयं ते ममैव तु ।
सहस्रं वत्सरान्दासी भवेयं तव वेश्मनि

131.17

तथेति ते प्रतिज्ञाय रात्रौ गत्वा स्वकं गृहम् ।
परित्यज्य उभे ते तु क्रोधमूर्छितमूर्छिते

131.18

बन्धुगर्वस्य गत्वा तु कथयामास तं पणम् ।
कद्रूर्विनतया सार्द्धं यद्वृत्तं प्रमदालये

131.19

तच्छ्रुत्वा बान्धवाः सर्वे कद्रूपुत्रास्तथैव च ।
न मन्यन्ते हितं कार्यं कृतं मात्रा विगर्हितम्

131.20

अकृष्णः कृष्णताम् अम्ब कथं गच्छेद्धयोत्तमः ।
दासत्वं प्राप्स्यसे त्वं हि पणेनानेन सुव्रते

131.21

कद्रूरुवाच:
भवेयं न यथादासी तत्कुरुध्वं हि सत्वरम् ।
विशध्वं रोमकूपेषु तस्याश्वस्य मतिर्मम

131.22

क्षणमात्रं कृते कार्ये सा दासी च भवेन्मम ।
ततः स्वस्थोरगाः सर्वे भविष्यथ यथासुखम्

131.23

सर्पा ऊचुः ।
यथा त्वं जननी देवि पन्नगानां मता भुवि ।
तथापि सा विशेषेण वञ्चितव्या न कर्हिचित्

131.24

कद्रूरुवाच:
मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ।
हव्यवाहमुखं सर्वे ते यास्यन्त्यविचारिताः

131.25

एतच्छ्रुत्वा तु वचनं घोरं मातृमुखोद्भवम् ।
केचित्प्रविष्टा रोमाणि तथान्ये गिरिसंस्थिताः

131.26

केचित्प्रविष्टा जाह्नव्यामन्ये च तपसि स्थिताः

131.27

ततो वर्षसहस्रान्ते तुतोष परमेश्वरः ।
महादेवो जगद्धाता ह्युवाच परया गिरा

131.28

भो भोः सर्पा निवर्तध्वं तपसो ऽस्य महत्फलम् ।
यमिच्छथ ददाम्यद्य नात्र कार्या विचारणा

131.29

सर्पा ऊचुः ।
कद्रूशापभयाद्भीता देवदेव महेश्वर ।
तव पार्श्वे वसिष्यामो यावदाभूतसम्प्लवम्

131.30

देवदेव उवाच:
एकश्चायं महाबाहुर्वासुकिर्भुजगोत्तमः ।
मम पार्श्वे वसेन्नित्यं सर्वेषां भयरक्षकः

131.31

अन्येषां चैव सर्पाणां भयं नास्ति ममाज्ञया ।
आप्लुत्य नर्मदातोये भुजगास्ते च रक्षिताः

131.32

नास्ति मृत्युभयं तेषां वसध्वं यत्र चेप्सितम् ।
कद्रूशापभयं नास्ति ह्येष मे विस्तरः परः

131.33

एवं दत्त्वा वरं तेषां देवदेवो महेश्वरः ।
जगामाकाशमाविश्य कैलासं धरणीधरम्

131.34

गते चादर्शनं देवे वासुकिप्रमुखा नृप ।
स्थापयित्वा तथा जग्मुर्देवदेवं महेश्वरम्

131.35

तत्र तीर्थे तु यः कश्चित् पञ्चम्यामर्चयेच्छिवम् ।
तस्य नागकुलान्यष्टौ न हिंसन्ति कदाचन

131.36

मृतः कालेन महता तत्र तीर्थे नरेश्वर ।
शिवस्यानुचरो भूत्वा वसते कालमीप्सितम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc