भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 132

132.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकत्रिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 132
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे ।
सर्वपापहरं तीर्थं वाराहं नाम नामतः

132.2

तत्र देवो जगद्धाता वाराहं रूपम् आस्थितः ।
स्थितो लोकहितार्थाय संसारार्णवतारकः

132.3

तत्र तीर्थे तु यः स्नात्वा पूजयेद् धरणीधरम् ।
गन्धमाल्यविशेषैश्च जयशब्दादिमङ्गलैः

132.4

उपवासपरो भूत्वा द्वादश्यां नृपसत्तम ।
वृषलाः पापकर्माणस् तथैवान्धपिशाचिनः

132.5

आलापाद् गात्रसंपर्कान् निःश्वासात् सहभोजनात् ।
पापं संक्रमते यस्मात् तस्मात् तान् परिवर्जयेत्

132.6

ब्राह्मणान् पूजयेद् भक्त्या यथाशक्त्या यथाविधि ।
रात्रौ जागरणं कार्यं कथायां तत्र भारत

132.7

प्रभाते विमले स्नात्वा तत्र तीर्थे जगद्गुरुम् ।
ये पश्यन्ति जितक्रोधास्ते मुक्ताः सर्वपातकैः

132.8

यथा तु दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति मुक्त्वा विषमुग्रतेजः ।
नश्यन्ति पापानि तथैव शीघ्रं दृष्ट्वा मुखं शूकररूपिणस्तु

132.9

नभोगतं नश्यति चान्धकारं दृष्ट्वा रविं देववरं तथैव ।
नश्यन्ति पापानि सुदुस्तराणि दृष्ट्वा मुखं पार्थ धराधरस्य

132.10

किं तस्य बहुभिर् मन्त्रैर् भक्तिर् यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः

132.11

एको ऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय

132.12

ध्यायमाना महात्मानो रूपं नारायणं हरेः ।
ये त्यजन्ति स्वकं देहं तत्र तीर्थे जितेन्द्रियाः

132.13

ते गच्छन्त्यमलं स्थानं यत्सुरैर् अपि दुर्लभम् ।
क्षराक्षरविनिर्मुक्तं तद्विष्णोः परमं पदम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc