भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 129

129.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 129
श्रीमार्कण्डेय उवाच:
ततो गच्छेन् महीपाल ब्रह्मतीर्थमनुत्तमम् ।
अन्येषां चैव तीर्थानां परात्परतरं महत्

129.2

तत्र तीर्थे सुरश्रेष्ठो ब्रह्मा लोकपितामहः ।
चतुर्णामपि वर्णानां नर्मदातटमाश्रितः

129.3

वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।
तत्क्षालयति देवेशो दर्शनाद् एव पातकम्

129.4

श्रुतिस्मृत्युदितान्येव तत्र स्नात्वा द्विजर्षभाः ।
प्रायश्चित्तानि कुर्वन्ति तेषां वासस्त्रिविष्टपे

129.5

ये पुनः शास्त्रमुत्सृज्य कामलोभप्रपीडिताः ।
प्रायश्चित्तं वदिष्यन्ति ते वै निरयगामिनः

129.6

स्नात्वादौ पातकी ब्रह्मन्नत्वा तु कीर्तयेद् अघम् ।
तस्य तन्नश्यते क्षिप्रं तमः सूर्योदये यथा

129.7

तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य स लभेत् फलमुत्तमम्

129.8

तत्र तीर्थे तु यद् दानं ब्रह्मोद्दिश्य प्रयच्छति ।
तदक्षयफलं सर्वमित्येवं शङ्करो ऽब्रवीत्

129.9

गायत्रीसारमात्रो ऽपि तत्र यः क्रियते जपः ।
ऋग्यजुःसामसहितः स भवेन्नात्र संशयः

129.10

तत्र तीर्थे तु यो भक्त्या त्यजेद्देहं सुदुस्त्यजम् ।
अनिवर्तिका गतिस्तस्य ब्रह्मलोकान् न संशयः

129.11

यावदस्थीनि तिष्ठन्ति ब्रह्मतीर्थे च देहिनाम् ।
तावद् वर्षसहस्राणि देवलोके महीयते

129.12

अवतीर्णस्ततो लोके ब्रह्मज्ञो जायते कुले ।
उत्तमः सर्ववर्णानां देवानामिव देवता

129.13

विद्यास्थानानि सर्वाणि वेत्ति वेदाङ्गपारगः ।
जायते पूजितो लोके राजभिः स न संशयः

129.14

पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं ब्रह्मतीर्थप्रभावतः

129.15

एतत्पुण्यं पापहरं तीर्थं ज्ञानवतां वरम् ।
ये पश्यन्ति महात्मानो ह्यमृतत्वं प्रयान्ति ते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc