भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 128

128.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अग्नितीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 128
मार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरम् उत्तमम् ।
यत्र सिद्धो महाभागो भृगुः परमकोपनः

128.2

तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ ।
पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः

128.3

वरो दत्तो महाभाग देवेनान्धकघातिना ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम्

128.4

अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ।
भृकुटेशं तु यः कश्चिद् घृतेन मधुना सह

128.5

पुत्रार्थी स्नापयेद् भक्त्या स लभेत् पुत्रमीप्सितम् ।
तत्र तीर्थे तु यः स्नात्वा दद्याद् विप्राय काञ्चनम्

128.6

गोदानं वा महीं वापि तस्य पुण्यफलं शृणु

128.7

ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता पृथ्वी न सन्देहस् तेन सर्वा नृपोत्तम

128.8

तेन दानेन स स्वर्गे क्रीडयित्वा यथासुखम् ।
मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc