भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 122

122.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकविंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 122
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल कोहनस्वेति विश्रुतम् ।
सर्वपापहरं पुण्यं तीर्थं मृत्युविनाशनम्

122.2

पुरा तत्र द्विजः कश्चिद्वेदवेदाङ्गपारगः ।
पत्नीपुत्रसुहृद्वर्गैः स्वकर्मनिरतो ऽवसत्

122.3

युधिष्ठिर उवाच:
ब्राह्मणस्य तु यत्कर्म उत्पत्तिः क्षत्रियस्य तु ।
वैश्यस्यापि च शूद्रस्य तत्सर्वं कथयस्व मे

122.4

धर्मस्यार्हस्य कामस्य मोक्षस्य च परं विधिम् ।
निखिलं ज्ञातुम् इच्छामि नान्यो वेत्ता मतिर्मम

122.5

मार्कण्डेय उवाच:
उत्पत्तिकारणं ब्रह्मा देवदेवः प्रकीर्तितः ।
प्रथमं सर्वभूतानां चराचरजगद्गुरुः

122.6

द्विजातयो मुखाज्जाताः क्षत्रिया बाहुयन्त्रतः ।
ऊरुप्रदेशाद् वैश्यास्तु शूद्राः पादेष्वथाभवन्

122.7

ततस्त्वन्ये पृथग्वर्णाः पृथग्धर्मान् समाचरन् ।
पर्यायेण समुत्पन्ना ह्यनुलोमविलोमतः

122.8

तेषां धर्मं प्रवक्ष्यामि श्रुतिस्मृत्यर्थचोदितम् ।
येन सम्यक्कृतेनैव सर्वे यान्ति परां गतिम्

122.9

गतिर्ध्यानं विना भक्तैर् ब्राह्मणैः प्राप्यते नृप ।
अध्यापयन्यतो वेदान्वेदं वापि यथाविधि

122.10

कुलजां रूपसम्पन्नां सर्वलक्षणलक्षिताम् ।
उद्वाहयेत्ततः पत्नीं गुरुणानुमते तदा

122.11

ततः स्मार्तं विवाहाग्निं श्रौतं वा पूजयेत् क्रमात् ।
प्रतिग्रहधनो भूत्वा दम्भलोभविवर्जितः

122.12

पञ्चयज्ञविधानानि कारयेद्वै यथाविधि ।
वनं गच्छेत् ततः पश्चाद्द्वितीयाश्रमसेवनात्

122.13

पुत्रेषु भार्यां निक्षिप्य सर्वसङ्गविवर्जितः ।
इष्टांल्लोकानवाप्नोति न चेह जायते पुनः

122.14

क्षत्रियस्तु स्थितो राज्ये पालयित्वा वसुंधराम् ।
शश्वद्धर्ममनाश्चैव प्राप्नोति परमां गतिम्

122.15

वैश्यधर्मो न सन्देहः कृषिगोरक्षणे रतः ।
सत्यशौचसमोपेतो गच्छते स्वर्गमुत्तमम्

122.16

न शूद्रस्य पृथग्धर्मो विहितः परमेष्ठिना ।
न मन्त्रो न च संस्कारो न विद्यापरिसेवनम्

122.17

न शब्दविद्यासमयो देवताभ्यर्चनानि च ।
यथा जातेन सततं वर्तितव्यमहर्निशम्

122.18

स धर्मः सर्ववर्णानां पुरा सृष्टः स्वयम्भुवा ।
मन्त्रसंस्कारसम्पन्नास्त्रयो वर्णा द्विजातयः

122.19

तेषां मतमनादृत्य यदि वर्तेत कामतः ।
स मृतो जायते श्वा वै गतिरूर्ध्वा न विद्यते

122.20

न तेषां प्रेषणं नित्यं तेषां मतमनुस्मरन् ।
यशोभागी स्वधर्मस्थः स्वर्गभागी स जायते

122.21

एवं गुणगणाकीर्णो ऽवसद्विप्रः स भारत ।
हनस्वेति हनस्वेति शृणोति वाक्यमीदृशम्

122.22

ततो निरीक्षते चोर्ध्वम् अधश्चैव दिशो दश ।
वेपमानः स भीतश्च प्रस्खलंश्च पदे पदे

122.23

शृङ्खलायुधहस्तैश्च पाशैश्चैव सुदारुणैः ।
वेष्टितं महिषारूढं नरं पश्यति मन्मुखम्

122.24

कृष्णांजनचयप्रख्यं कृष्णाम्बरविभूषितम् ।
रक्ताक्षमायतभुजं सर्वलक्षणलक्षितम्

122.25

दृष्ट्वा तं तु समायान्तं निरीक्ष्यात्मानमात्मना ।
जपञ्जाप्यं च परमं शतरुद्रीयसंस्तवम्

122.26

ततः प्रोवाच भगवान्यमः संयमनो महान् ।
शृणु वाक्यमतो ब्रह्मन्यमो ऽहं सर्वजन्तुषु

122.27

संहरस्व महाभाग रुद्रजाप्यं सुदुर्भिदम् ।
येनाहं कालपाशैस्त्वां संयमामि गतव्यथः

122.28

तच्छ्रुत्वा निष्ठुरं वाक्यं यमस्य मुखनिर्गतम् ।
महाभयसमोपेतो ब्राह्मणः प्रपलायितः

122.29

तस्य मार्गे गताः सर्वे यमेन सह किंकराः ।
तिष्ठ तिष्ठेति तं विप्रमूचुस्ते सो ऽप्यधावत

122.30

त्वरमाणः परिश्रान्तो हा हतो ऽहं दुरात्मभिः ।
रक्ष रक्ष महादेव शरणागतवत्सल

122.31

एवमुक्त्वापतद्भूमौ लिङ्गमालिङ्ग्य भारत ।
गतसत्त्वः स विप्रेन्द्रः समाश्रित्य सुरेश्वरम्

122.32

तं दृष्ट्वा पतितं भूमौ देवदेवो महेश्वरः ।
को हनिष्यति माभैस्त्वं हुङ्कारमकरोत्तदा

122.33

तेन ते किंकराः सर्वे यमेन सह भारत ।
हुङ्कारेण गताः सर्वे मेघा वातहता यथा

122.34

तदाप्रभृति तत्तीर्थं कोहनस्वेति विश्रुतम् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम्

122.35

तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यनुत्तमम्

122.36

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
न पश्यति यमं देवमित्येवं शङ्करो ऽब्रवीत्

122.37

अग्निप्रवेशं यः कुर्याज्जले वा नृपसत्तम ।
अग्निलोके वसेत् तावद् यावत् कल्पशतत्रयम्

122.38

एवं वरुणलोके ऽपि वसित्वा कालमीप्सितम् ।
इह लोकमनुप्राप्तो महाधनपतिर्भवेत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc