भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 121

121.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कम्बुकेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 121
मार्कण्डेय उवाच:
ततो गच्छेन्महीपाल चन्द्रहासमतः परम् ।
यत्र सिद्धिं परां प्राप्तः सोमराजः सुरोत्तमः

121.2

युधिष्ठिर उवाच:
कथं सिद्धिं परां प्राप्तः सोमनाथो जगत्पतिः ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ

121.3

श्रीमार्कण्डेय उवाच:
पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत ।
असेवनाद्धि दाराणां क्षयरोगी भविष्यसि

121.4

उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् ।
या निष्ठा जायते नृणां तां शृणुष्व नराधिप

121.5

ऋतावृतौ हि नारीणां सेवनाज्जायते सुतः ।
सुतात्स्वर्गश्च मोक्षश्च इत्येवं श्रुतिभाषितम्

121.6

तत्कालोचितधर्मेण वेष्टितो रौरवे पतेत् ।
तस्यास्तद्रुधिरं पापः पिबते कालमीप्सितम्

121.7

ततो ऽवतीर्णः कालेन यां यां योनिं प्रयास्यति ।
तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा

121.8

नारीणां तु सदा कामो ऽभ्यधिकाः परिवर्तते ।
विशेषेण ऋतौ काले पीड्यते कामसायकैः

121.9

परिभूता हिता भर्त्रा ध्यायन्ते ऽन्यं पतिं स्त्रियः ।
ततः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम्

121.10

स्वर्गस्थास्तेन पितरः पूर्वजास्ते पितामहाः ।
पतन्ति जातमात्रेण कुलटस्तेन चोच्यते

121.11

तेन कर्मविपाकेन क्षयरोग्यभवच्छशी ।
त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः

121.12

ततस्तीर्थान्यनेकानि पुण्यान्यायतनानि च ।
भ्रमन्वै नर्मदां प्राप्तः सर्वपापप्रणाशनीम्

121.13

उपवासं च दानानि व्रतानि नियमांस् तथा ।
चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः

121.14

स्नापयित्वा महादेवं सर्वपातकनाशनम् ।
जगाम प्रभया पूर्णः स च लोकमनुत्तमम्

121.15

येनैव स्थापितो देवः पूज्यते वर्षसंख्यया ।
तावद्वर्षसहस्राणि रुद्रलोके स पूज्यते

121.16

तेन देवान्विधानोक्तान्स्थापयन्ति नरा भुवि ।
अक्षयं चाव्ययं यस्मात्कालं भुञ्जन्ति मानवाः

121.17

सोमतीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् ।
स भ्राजते नरो लोके सोमवत् प्रियदर्शनः

121.18

चन्द्रहासे तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः ।
स्नानं समाचरेद् भक्त्या मुच्यते सर्वकिल्बिषैः

121.19

तत्र स्नानं च दानं च चन्द्रहासे शुभाशुभम् ।
कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम्

121.20

ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् ।
चन्द्रहासे तु ये स्नात्वा पश्यन्ति ग्रहणं नराः

121.21

वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।
स्नानमात्रेण राजेन्द्र तत्र तीर्थे प्रणश्यति

121.22

बहवस्तं न जानन्ति महामोहसमन्विताः ।
देहस्थमिव सर्वेषां परमानन्दरूपिणम्

121.23

पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् ।
तत्समग्रम् अवाप्नोति चन्द्रहासे न संशयः

121.24

संक्रान्तौ च व्यतीपाते अयने विषुवे तथा ।
चन्द्रहासे नरः स्नात्वा सर्वपापैः प्रमुच्यते

121.25

ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् ।
चन्द्रहासं न जानन्ति ये रेवायां व्यवस्थितम्

121.26

चन्द्रहासे तु यः कश्चित्संन्यासं कुरुते द्विजः ।
अनिवर्तिका गतिस्तस्य सोमलोकान्न संशयः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc