रेवाखाण्ड (संशोधित पाठ) · अध्याय 123
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोहनतीर्थमाहात्म्यवर्णनं नाम द्वाविंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 123
मार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र कर्मदीतीर्थम् उत्तमम् ।
यत्र तिष्ठति विघ्नेशो गणनाथो महाबलः
तत्र तीर्थे नरः स्नात्वा चतुर्थ्यां वा ह्युपोषितः ।
विघ्नं न विद्यते तस्य सप्तजन्मनि भारत
तत्र तीर्थे हि यत्किंचिद् दीयते नृपसत्तम ।
तदक्षयफलं सर्वं जायते नात्र संशयः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0