रेवाखाण्ड (संशोधित पाठ) · अध्याय 115
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिसम्भवतीर्थमाहात्म्यवर्णनं नाम चतुर्दशाधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 115
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज तीर्थम् अङ्गारकं परम् ।
रूपदं सर्वलोकानां विश्रुतं नर्मदातटे
अङ्गारकेण राजेन्द्र पुरा तप्तं तपः किल ।
अर्बुदं च निखर्वं च प्रयुतं वर्षसंख्यया
ततस्तुष्टो महादेवः परया कृपया नृप ।
प्रत्यक्षदर्शी भगवान् उवाच क्षितिनन्दनम्
वरदो ऽस्मि महाभाग दुर्लभं त्रिदशैर् अपि ।
वरं दास्याम्यहं वत्स ब्रूहि यत्ते विवक्षितम्
अङ्गारक उवाच:
तव प्रसादाद्देवेश सर्वलोकमहेश्वर ।
ग्रहमध्यगतो नित्यं विचरामि नभस्तले
यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ ।
नद्यो नदाः समुद्राश्च वरो मे चाक्षयो भवेत्
एवमस्त्विति देवेशो दत्त्वा वरमनुत्तमम् ।
जगामाकाशमाविश्य वन्द्यमानः सुरासुरैः
भूमिपुत्रस्ततस्तस्मिन्स्थापयामास शङ्करम् ।
गतः सुरालये लोके ग्रहभावे निवेशितः
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
हुतहोमो जितक्रोधः सो ऽश्वमेधफलं लभेत्
चतुर्थ्यङ्गारके यस्तु स्नात्वा चाभ्यर्चयेद्ग्रहम् ।
अङ्गारकं विधानेन सप्तजन्मानि भारत
दशयोजनविस्तीर्णे मण्डले रूपवान् भवेत् ।
तत्रैव ता मृतो जन्तुः कामतो ऽकामतो ऽपि वा ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0