रेवाखाण्ड (संशोधित पाठ) · अध्याय 114
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमो ऽध्यायः ॥
र्क्व् अध्याय 114
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
अयोनिजं महापुण्यं सर्वपापप्रणाशनम्
अयोनिजे नरः स्नात्वा पूजयेत् परमेश्वरम् ।
पितृदेवार्चनं कृत्वा मुच्यते सर्वकिल्बिषैः
तत्र तीर्थे तु विधिना प्राणत्यागं करोति यः ।
स कदाचिन्महाराज योनिद्वारं न पश्यति
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0