भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 116

116.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्गारकतीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 116
मार्कण्डेय उवाच:
पाण्डुतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
तत्र स्नात्वा नरो राजन् मुच्यते सर्वकिल्बिषैः

116.2

तत्र तीर्थे तु यः स्नात्वा दापयेत् काञ्चनं शुचिः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः

116.3

पिण्डोदकप्रदानेन वाजपेयफलं लभेत् ।
पितरः पितामहाश्च नृत्यन्ते च प्रहर्षिताः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc