भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 112

112.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे स्कन्दतीर्थमाहात्म्यवर्णनं नामैकादशोत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 112
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थमाङ्गिरसस्य तु ।
उत्तरे नर्मदाकूले सर्वपापविनाशनम्

112.2

पुरासीदङ्गिरानाम ब्राह्मणो वेदपारगः ।
पुत्रहेतोर् युगस्यादौ चचार विपुलं तपः

112.3

नित्यं त्रिषवणस्नायी जपन्देवं सनातनम् ।
पूजयंश्च महादेवं कृच्छ्रचान्द्रायणादिभिः

112.4

द्वादशाब्दे ततः पूर्णे तुतोष परमेश्वरः ।
वरेण छन्दयामास द्विजम् आङ्गिरसं वरम्

112.5

वव्रे स तु महादेवं पुत्रं पुत्रवतां वरम् ।
वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम्

112.6

देवानां मन्त्रिणं राजन् सर्वलोकेषु पूजितम् ।
ब्रह्मलक्ष्म्याः सदावासम् अक्षयं चाव्ययं सुतम्

112.7

तथाभिलषितः पुत्रः सर्वविद्याविशारदः ।
भविष्यति न सन्देहश्चैवमुक्त्वा ययौ हरः

112.8

वरैर् अङ्गिरसश्चापि बृहस्पतिरजायत ।
यथाभिलषितः पुत्रो वेदवेदाङ्गपारगः

112.9

जाते पुत्रेऽङ्गिरास् तत्र स्थापयामास शङ्करम् ।
हृष्टतुष्टमना भूत्वा जगामोत्तरपर्वतम्

112.10

तत्र चाङ्गिरसे तीर्थे यः स्नात्वा पूजयेच्छिवम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति

112.11

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
इच्छते यश्च यं कामं स तं लभति मानवः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc