रेवाखाण्ड (संशोधित पाठ) · अध्याय 113
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽग्निरसतीर्थमाहात्म्यवर्णनं नाम द्वादशाधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 113
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् ।
ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता
तत्र तीर्थे तु यः स्नात्वा भोजयेद् ब्राह्मणाञ्छुचिः ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता
तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः ।
पूजिते तु महादेवे वाजपेयफलं लभेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0