रेवाखाण्ड (संशोधित पाठ) · अध्याय 106
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करञ्जतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 106
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।
सौभाग्यकरणं दिव्यं नरनारीमनोरमम्
तत्र या दुर्भगा नारी नरो वा नृपसत्तम ।
स्नात्वार्चयेद् उमारुद्रौ सौभाग्यं तस्य जायते
तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः ।
निमन्त्रयेद् द्विजं भक्त्या सपत्नीकं सुरूपिणम्
गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् ।
भोजयेत् पायसान्नेन कृसरेणाथ भक्तितः
भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् ।
प्रीयतां मे महादेवः सपत्नीको वृषध्वजः
यथा ते देवदेवेश न वियोगः कदाचन ।
ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत्
एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् ।
तत्ते सर्वं प्रवक्ष्यामि यथा देवेन भाषितम्
दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् ।
वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर
ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः ।
तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः
सो ऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः ।
गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः
शरीरं भेदयेद् यस्तु गौर्याश्चैव समीपतः ।
तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर् जायते यदि
देहपाते व्रजेत् स्वर्गम् इत्येवं शङ्करो ऽब्रवीत् ।
सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः
ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि ।
पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः
कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् ।
कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम्
तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः ।
कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा
सप्तधान्यं तथा चैव भोजनं नृपसत्तम ।
अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः
सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः ।
सहस्रगुणितं सर्वं नात्र कार्या विचारणा
शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् ।
सौभाग्यं तस्य विपुलं जायते नात्र संशयः
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0